वयं सर्वे “पालिन्ड्रोम्” (Palindrome) किमिति जानीमः । “विकटकवि” अस्य एकः सामान्यदृष्टान्तः ।
परंतु, विलोमकाव्यं इतोपि किंचित् विलक्षणम् । तत् न पालिन्ड्रोम्; तस्य वामतः, दक्षिणतश्च पठामः चेत् द्वे भिन्ने अर्थौ स्तः। अतः एतत् अनुलोमविलोमकाव्यमिति कथ्यते ।
“राघवयादवीयम्” इति काव्यात् श्लोकमेकं अत्र दास्यामि । वामतः पठितः चेत् एषः श्लोकः श्रीरामस्य चरितमस्ति । दक्षिणतः पठितः चेत् तदेव श्लोकः यादवस्य श्रीकृष्णस्य चरितं वर्णयति ।
वन्देऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥
“I pay my obeisance to Lord Shri Rama, who with his heart pining for Sita, travelled across the Sahyadri Hills and returned to Ayodhya after killing Ravana and sported with his consort, Sita, in Ayodhya for a long time.”
Same sloka in reverse
सेवाध्येयो रामालाली गोप्याराधी मारामोरा ।
यस्साभालंकारं तारं तं श्रीतं वन्देहं देवं ॥
“I bow to Lord Shri Krishna, whose chest is the sporting resort of Shri Lakshmi;who is fit to be contemplated through penance and sacrifice, who fondles Rukmani and his other consorts and who is worshipped by the gopis, and who is decked with jewels radiating splendour.”
एतद्विषये अधिकं ज्ञातुं, राघवयादवीयं पूर्णं पठितुं च एतत् जालपुटं पश्यन्तु ।
My ebook on this work is published in sundarasimham website. The uRL for the same is http://www.sundarasimham.org
Madam,
I have already downloaded your e-book and shared it with my friends. May God bless with a long healthy life to continue your noble work.