महाकवेः कालिदासस्य अन्तिमं समस्यापूरणम् – Last “Samasya” of Kalidasa

एकदा भोजराजः कुपितो भूत्वा कालिदासं राजसभातः बहिष्कृतवान्। अभिमानधनः कालिदासः छद्मवेषं धृत्वा कस्यचन युवत्याः गृहे न्यवसत्। किंचित्कालानन्तरं भोजराजः रामायणमधिकृत्य चम्पू काव्यमेकं रचितवान्। परन्तु महाकवेः कालिदासस्य अनुमतिं विना तत् चम्पूकाव्यं प्रकाशयितुं भोजराजः न ऐच्छत्। अतः स एकां समस्यां निर्माय “यः कोऽपि एषां समस्यां पूरयति तस्मै मम राज्यस्य अर्धं ददामि” इति उद्घोषितवान्।

समस्य एवमासीत् – “कुसुमे कुसुमोत्पत्तिः दॄश्यते न च श्रूयते।” कालिदासाद् ऋते समस्यामेतां पूरयितुं न कोऽपि शक्त इति भोजराजः सम्यक् जानाति स्म।

यस्याः गृहे कालिदासः निवसन्नासीत् सा युवतिः गृहस्य भित्तौ समस्यामेतां लिखितवती। राज्ञः घोषणायाः विषये किंचिदपि कालिदासेन न श्रुतम्। अतः सः भित्तौ लिखितं श्लोकार्द्धं दृष्ट्वा एषा समस्या युवत्या एव रचिता इति मत्वा भित्तौ श्लोकस्य पूर्वार्द्धस्य अधः एवं लिखित्वा समस्यां अपूरयत् – “बाले तव मुखांभोजे नयनेन्दीवरद्वयम्” इति। एतद् दृष्ट्वा सा युवती प्रसन्ना भूत्वा श्लोकमेनं एकस्मिन् पत्रे लिखितवती। समस्यापूरणं कालिदासेन कृतमिति न केनापि ज्ञातव्यमिति चिन्तयित्वा सा कालिदासं एकस्मिन् गर्ते पातयित्वा तस्योपरि एकां शिलामपि संस्थाप्य राजमन्दिरं अगच्छत्। समस्यापूरणं दृष्ट्वा भोजराजः तत्क्षणमेव अवगतवान् एतत् कालिदासेन कृतमिति। कालिदासः कुत्र अस्ति? किं त्वया कालिदासो हतो वा? इति राजा तां अपृच्छत्। भीता सा राजानं सर्वं वृत्तन्तं अवदत्।

भोजराजः झटिति तस्याः गृहं गत्वा कालिदासं गर्तात् रक्षितवान्। परन्तु तावता कालिदासः मृतप्राय आसीत्। सः राजानं अवदत् “इह जीवनं नितरां चञ्चलमस्ति। मम जीवनस्य अन्तिमक्षणे परमात्मनि मनः संस्थापयितुमिच्छामि” इति। एतच्छ्रुत्वा भोजराजः विषण्णो भूत्वा एवं अवदत् “मया रामायणमधिकृत्य चम्पूकाव्यमेकं रचितम्। तद्भवता श्रोतव्यमिति मे अभिलाषः” इति। कालिदासस्य अनुमतिं प्राप्य राजा काव्यं श्रावयितुमारव्धवान्। यावता सुन्दरकाण्डस्य अन्तिमश्लोकः पठितः तावता महाकवेः कालिदासस्य प्राणाः शरीरान्निर्गताः।

भोजराजः रामायणचम्पूकाव्यस्य सुन्दरकाण्डपर्यन्तमेव प्रकाशनमकरोत् यतः तावदेव कालिदासेन श्रुतं अनुमतं च – युक्धकाण्डं, उत्तरकाण्डं च सः अग्नौ प्राक्षिपत्। कालिदासं प्रति भोजराजस्य मनसि कियान् आदरः आसीदित्यस्य एषः प्रसङ्ग एव प्रमाणम्।

9 thoughts on “महाकवेः कालिदासस्य अन्तिमं समस्यापूरणम् – Last “Samasya” of Kalidasa

  1. कुसुमे कुसुमोत्पत्तिः दॄश्यते न च श्रूयते|
    Does this mean: The birth of a flower in a flower is neither seen or heard.

    बाले तव मुखांभोजे नयनेन्दीवरद्वयम्
    Does this mean: O girl, on your face there are two eyes.

    अहं भोजवाक्यं कालिदासवाक्यं विहास्य सर्वम् अवागच्छम। ते वाक्ये कृपया अवबोधयतु।

    • Potaji,

      This samasya is very famous; but the story is not so well known. That is why I described only the story part and left the English meaning of the samasya. A translation of the samasya is given below.

      कुसुमे कुसुमोत्पत्तिः दॄश्यते न च श्रूयते – The birth of a flower upon another flower is neither heard nor seen anywhere.
      बाले तव मुखांभोजे नयनेन्दीवरद्वयम् – Young dame! Upon your lotus face, your eyes are like two blue lotuses.

      The girl’s face as well as the eyes are equated to flowers. Thus, the poet describes how there can be a flower within another flower.

      I found this story in the preface of “KUVALAYANANDA KARIKA” which is available at http://www.archive.org

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s