A verse on Chewing Betal Leaves – सुधाधिक्यं स्पृहेच्छत्रुः

ganapati_muni

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा केचन कलालयछात्राः गणपतिमुनेः वैदुष्यं, कवित्वं च परीक्ष्य आस्वादितुं समागताः। संभाषणमध्ये ते तं अपृच्छन् “ताम्बूलचर्वणविषये भवतः अभिप्रायः पद्येन कथ्यतां” इति। तदा मुनिः तद्विषये स्वीयमभिप्रायं एतेन सरलेन श्लोकेन प्रकटीकृतवान्।

सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेद् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥ इति॥

(A person’s enemies would want excess lime in his tambulam; his physician would want excess areca nut in it; his wife would want excess Betel leaf in it while his mother would want all the three in right proportion.)

ताम्बूले सुधायाः आधिक्येन मुखे जिह्वायां च व्रणं भवति। तस्मात् शत्रूणां तदभिलषणीयम्। क्रमुकफलस्य अधिकसेवनेन उदररोगः भवति। तद् वैद्यस्य लाभाय एव। ताम्बूले पत्रस्य अधिकोपयोगेन कामवृद्धिर्भवति इत्यतः तद् जायायाः इष्टं भवति। ताम्बूले फल-पत्र-सुधानां त्रयाणां यथाविधिः सेवनं आरोग्यप्रदं पाचनशक्तिं वर्द्धयति इति कारणात्। अतः माता स्वपुत्रः ताम्बूलं एवमेव सेवयेदिति इच्छति।

एतत्प्रसङ्गः कापालिशास्त्रिवर्येण विरचितात् वासिष्ठवैभवात् समाहृतोऽस्ति।

4 thoughts on “A verse on Chewing Betal Leaves – सुधाधिक्यं स्पृहेच्छत्रुः

    • पोताजी,

      वास्तविकः शब्दः व्रणं (mouth sores) इति। मया प्रमादेन वृणमिति लिखितम्। दोषदर्शनार्थं धन्यवादाः। पोस्ट् मध्ये शोधनं कृतं मया।

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s