एकदा भोजराजः छद्मवेषं धृत्वा धारानगर्यां अटन्नासीत्। तत्र एकस्मिन् गृहे सः एकं विलक्षणं दृश्यं व्यलोकयत्। तस्मिन् गृहे कश्चित् पुरुषः पत्न्याः अङ्के शिरः संस्थाप्य शयान आसीत्। तदा अकस्मात् तयोः अल्पवयस्कः बालकः महानसे अग्नौ अपतत्। भयानकं तं दृश्यमवलोक्य अपि, भर्तुः निद्रायाः भञ्जनं कर्तुं न इच्छन्त्या तया स्वपतिः न उत्थापितः। तथापि तस्याः पातिव्रत्यस्य बलेन शीतलीभूत इव पावकः तं बालकं मनागपि न बाधितवान्। संवृत्तमेनं संपश्य विस्मितो भूत्वा भोजराजः स्वमन्दिरं प्रत्यगच्छत्। परस्मिन् दिने सः “हुताशनश्चन्दनपङ्कशीतल:” इत्यस्याः समस्यायाः पूरणं कर्तुं स्वसदस्येभ्यः अपृच्छत्। एषा समस्या अपि कालिदासेन एव एवं पूरिता।
सुतं पतन्तं सुसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता।
तदाऽभवत् तत्पतिभक्तिगौरवात् हुताशनश्चन्दनपङ्कशीतलः॥
पूर्ववृत्तान्तं मांसचक्षुषा अपश्यता अपि कालिदासेन ज्ञानचक्षुषा एव संवृत्तमखिलं ज्ञातमिति अवगम्य भोजराजः महता आदरेण तं प्रभूतं स्वर्णं, कौशाम्बरं च दत्वा सम्मानितवान्।
अति उत्तमम्! भवतः blog पठित्वा अहम् आनन्दम् अनुभवामि!
धन्यवादः!
-कार्तिकः
p.s. कालिदासस्य ऎताः कथाः कस्मिन्श्चिदपि पुस्तकॆ पठितुम् शक्नुमः वा?
(संस्क्रृतदॊषान् कृपय क्षम्यताम्!)
कार्तिक,
भवान् कृपया मां अनुमोदितवान्, तदर्थं कृतज्ञोऽहम्।
कालिदासस्य काश्चन कथाः मलयालभाषायां “ऐतिह्यमाला” इत्येकस्मिन् ग्रन्थे सन्ति। आङ्गलभाषायां तु इतःपर्यन्तं न दृष्टवान्। तथापि अस्मिन् जालपुटे काश्चन सन्ति।
Karthik
After replying to your comment yesterday, I too started searching for a book with stories of bhoja and kalidasa. The original source of these stories is “Bhojaprabandha” of Ballala Kavi. It is available for download (with Hindi commentary) from here.
I also found that this book was translated into English by Louis H Gray in 1950. But now it seems to be out of print. Its copies may be there in some libraries. You may also try to find it, if possible.
regards
shankara
एतस्याः वार्त्तायाः मया त्रयः शब्दाः शिक्षिताः।
महानसम् – पाकशाला इति। ह्यः अहं संस्कृतचन्दमामा इति पत्रिकां पठामि स्म यस्मिन् महानसम् इति शब्दः अस्ति, अद्य पुनः सः शब्दः दृष्ट्वा अनुशीलनम् अभवत् ।
मनाक् – अल्पम्, न्यूनम् इति। पूर्वम् अहं अस्य शब्दस्य अर्थं न ज्ञातम् ।
पङ्कः – ointement. अस्य शब्दस्य कर्दमम् इति अर्थम् पङ्कजः इति उपयोगं अजानं किन्तु लेपः इति न अजानम् ।
धन्यवादः।