कालिदासः एकदा रात्रौ छद्मवेषं धृत्वा नगरे अटन् आसीत्। परेद्युः प्रातः काले भोजराजस्यापि कुत्रापि गन्तव्यमासीत्। राज्ञः शिबिकां वोढुं वाहकाः अपर्याप्ता इत्यतः राजभटाः नगरवीथिषु अटन्तं छद्मवेषधारिणं कालिदासं शिबिकां वोढुं नियुक्तवन्तः। एतादृशे कर्मसु कालिदासस्य अभ्यासः नासीत् इत्यतः सः अचिरात् एव श्रान्तः अभवत्।
श्रान्तं कालिदासं वीक्ष्य कारुणिकः भोजराजः अपृच्छत् “अयं आन्दोलिकादण्डस्तव बाधति वा न वा” इति। कालिदासः प्रत्यवदत् “नायमान्दोलिकादण्डः तव बाधति बाधते” इति। तत् श्रुत्वा, एषः शिबिकावाहकः न सामान्यः कोऽपि परन्तु मम प्रेष्ठः कालिदास एव इति ज्ञात्वा भोजराजः कालिदासं शिबिकायां आसनं प्रदत्तवान्।
भोजराजेन प्रयुक्तः “बाधति” शब्दः सदोषः आसीत् इति सुव्यक्तम्।
”भारो न बाधते राजन् यथा बाधति बाधते ” इति पाठान्तरः मया पठितः भोज-प्रबन्धे॥
शुक्लाजी,
सूचनार्थं धन्यवादाः।
भोजप्रबधे इदानीमेव मया http://www.archive.org जालपुटतः अवनीतः। परन्तु पूर्णतया न पठितः। एतादृशप्रसंगानां पाठान्तराः सन्त्येव।
mayaa anyarupena etaam kathaam Srutam | kaSchana prasiddha: kavi: bhoja rAjam prati aagacchati | kAlidaasa: vAhaka vesham dhRutvaa tam aanetum gacchati | kavi: vadati “SItalam bhaadati maam” iti | tathaa kAlidAsa: vadati “tathaa na bAdhate SItalam yathA bAdhati bAdhate” | etat Srutvaa kavi: chintayati “yadi vAhaka: etaadRusha: samskRuta vyAkaraNam janaati tarhi aham tu nischayena paraajaya:” | rAtrau eva palaayanam karoti ||