गुरुः शिष्यं प्रति आत्मस्वरूपं कथं बोधयति इत्यस्य उत्तमदृष्टान्तमस्ति विष्णुपुराणान्तर्गता एषा कथा।
निदघः ऋभुमुनेः शिष्यः आसीत्। सः गुरुकुले कानिचन वर्षाणि उषित्वा विद्याध्ययनं कृत्वा तत्समाप्य स्वगृहं प्रत्यगच्छत्। “आत्मैवेदं सर्वम्” इति तेन गुरुमुखात् श्रुतमासीत् तथापि तस्य आत्मबोधो न सञ्जातः। ऋभुः स्वशिष्यं अत्यन्तं स्निह्यति स्म। अतः सः निदघस्य अज्ञानं दूरीकरोतुं इदानीं उचितः कालः इति चिन्तयित्वा एकस्य स्थविरस्य ग्रामीणस्य रूपं धृत्वा निदघस्य ग्रामं समागतः। तदा निदघः तद्देशस्य राज्ञः तत्परिजनस्य च प्रस्थानं निरीक्षमाण आसीत्। ग्रामीणः निदघस्य समीपं गतवान्। तयोर्मध्ये एषः संवादः संवृत्तः।
ग्रामीणः (ऋभुः) – किमर्थं एषः कोलाहलः?
निदघः – राजा गच्छति।
ग्रामीणः – बहवः जनाः सन्ति। तेषां राजा कः?
निदघः – यः हस्तिनः उपरि उपविशति स राजा।
ग्रामीणः – राजा गजस्योपरि इति भवता उक्तम्। अहं द्वावपि पश्यामि, परन्तु तयोः को राजा, गजः कः इति न जानामि।
निदघः – (रोषेण) किम्! यदि भवान् द्वावपि पश्यति तथापि उपरिष्ठः राजा, तस्य अधः गजः इति न जानाति चेत् भवता सह भाषणमेव व्यर्थम्।
ग्रामीणः – मादृशं अज्ञं प्रति क्षमा प्रदर्शितव्या भवता। ’उपरि’ एवं ’अधः’ इति द्वौ शब्दौ भवता प्रयुक्तौ, तयोः को अर्थः?
ग्रमीणस्य मौढ्यं इतोऽप्यधिकं सोढुं असमर्थः निदघः बलात् तस्य स्कन्धमारुह्य “राजः गजोपरि” इव उपविश्य तं उक्तवान् “जानातु इदानीं। अहं राजवत् उपरि अस्मि। त्वं गजवत् अधः अपि। इदानीं अवगतं वा?”
ग्रामीणः – पूर्णतया न अवगतं। ’राजा, गजः, उपरि एवं अधः’ एतावत् अवगतवान्। परन्तु ’अहं’ एवं ’त्वं’ किमिति न जानामि। कृपया मां वदतु कोऽहं, कस्त्वं इति च।
“कोऽहं” एवं “कस्त्वं” इति अतिगहनां समस्यां सम्मुखीकृत्य निदघः झटित्येव निर्विचारसमाधिं अनुभूतवान्। तदनन्तरं निदघः एषः ग्रामीणः स्वस्य परमादरणीयः गुरुवर्यः एव इत्यभिज्ञाय गुरुं विधिवत् प्रणम्य सत्कृत्य एवं अवदत् “भवत्कृपया अहं अद्य आत्मस्वरूपं किमिति ज्ञात्वा धन्योऽभवम्। मां सदा अनुग्रह्णातु।”
एषा कथा भगवता रमणेन पुनरुक्ता “spiritual stories” नामके ग्रन्थे आङ्गलभाषायां उपलभ्यते।
प्रतिदिनम् वर्धमानं भवल्लेखनम् सुखयति।
निरीक्षमाण एव साधु । ईक्ष्-धातोः आत्मने-पदित्वात्।
शुक्लाजी,
स्खलितं सूचितं तदर्थं धन्यवादाः। इदानीं तन्मया शंशोधितम्। मम व्याकरणज्ञानं अतिन्यूनमस्ति। भवान् कृपया सदा मार्गदर्शनं करोतु इति मे प्रार्थना।
I am always here with submission.
thanks a lot for suggestions to make my blog more accessible.
(वसन्ततिलका- scheme – SSI SII ISI ISI SS )
“सुस्वागतं प्रथमदर्शनदृष्टराग !
भूयो भवानिह भवत्विति काङ्क्षितं मे।”
(The same meter has been used by Lord Shankar in “kanakadhaaraa-stotra” and many more occassions.. recognize it )
Balram Shulka ji,
Very nice blog. Very educative. Please continue to write more like this.
Have one question though. You are using the word “evam” to mean “ca” (upari evam adha: iti dvau…). As far as I know, only in Hindi, evam is used as ca, not in Sanskrutam. In Sanskrutam, “evam” is used as “only/alone etc”. Please correct if I’m wrong.
सूचनार्थं धन्यवादाः। भवता सुष्टु अभिप्रेतम्। तदनुसृत्य मय शोधितमिदानीम्।
Oops the above comment is addressed for bharateeya-ji.