कस्यचन कृपणस्य विषये कश्चित् कविः एवं कथयति-
आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम्।
विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः॥
आनन्दताण्डवपुरनामके नगरे कस्यचन द्रविडस्य गृहे भोजनवेलायां उपयुज्यमानं घृतपात्रं अरुन्धतीतारावत् अल्पाकारं। घृतस्य परिवेषणार्थं उपयुज्यमाना दर्वी अपि अतिसूक्ष्मा। तथा च घृतस्य परिवेषणं शीघ्रं तथा धारा कृशा च स्तः येन दर्वी विद्युल्लतेव परिनृत्यमाना दृश्यते। अत एव अतिकृशां आज्यधारां योगबलेन सिद्धः कश्चिदेव दृष्टुं शक्यते, न कश्चित् सामान्यः मानवः तद्दृष्टुं शक्यते तस्या अत्यन्तकृशत्वात्।
द्रविडस्यास्य कार्पण्यं कियद् इति अत्र कविना अतिरुचिरं व्यंजितमस्ति।
बहु साधु!!
’विद्युल्लतेव’ इत्येव स्यात् पूर्व-पाठे छ्न्दोभङ्गः । वोलोकयति न विलोकयति।
कुत एतदधिगतम्?
शुक्लाजी,
शोधनार्थं धन्यवादाः। द्वे अपि स्खलिते अनवधानतावशात् लेखने सञ्जातौ। अहं लेखनानन्तरं द्वित्रिवारं पठितवान्। तथापि तौ दृष्टिपथे नागते। स्खलिताः शोधिता इदानीं मया।
श्लोकोऽयं मया बहुवर्षेभ्यः पूर्वं टिप्पणीपुस्तके लिखितः। इदानीं पुनः “सुभाषित और् विनोद्” इत्यस्मिन् हिन्दी पुस्तके दृष्टः। तस्य पुस्तकस्य pdf मम सकाशे अस्ति। भवान् इच्छति चेत् तत् पुस्तकं अवनेतुं शक्यते।
अतिरुचिरं
😉
Thanks for the book.