कदाचिद् भोजराजः बहिः उद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श। तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं च अतिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं च अवलोक्य तुरङ्गं तदग्रे निधाय आह – “विप्र, चर्मपात्रं किमर्थं पाणौ वहसि” इति। स च विप्रो नूनं मुखशोभया मृदूक्त्या एषः भोजराजः इति विचार्य आह – “वदान्यशिरोमणौ भोजे पृथिवीं शासति लोहताम्राभावः समजनि। अतः चर्मपात्रं वहामि” इति। राजा अपृच्छत् – “भोजे शासति लोहताम्राभावे को हेतुः?” इति। तदा विप्रः पठति –
अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम्।
शत्रूणां श्रङ्खलैर्लोहं ताम्रं शासनपत्रकैः॥
ततस्तुष्टो भोजराजः तस्मै प्रत्यक्षरं लक्षं ददौ।
bahu samyak !!
pravaaho’varuddhah maa bhoot!!!!!!!!!!
shubhaashansI
Balramah
महॊदय नमांसि ।
भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ
http://sanskrit.teluguthesis.org/aggregator/sources
अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।
संस्कृतवाणी कृतॆ –
पाण्डुरङ्गशर्मा रामकः
—
संस्कृतवाणी
Sanskrit Aggregator’s Blog