मम विषये

मम, एतस्य जालपुटस्यापि च विषये कतिपय शब्दाः

अहं संस्कृतप्रेमी। संस्कृतभाषायां किंचित् लिखितुं मम इच्छाऽस्ति। अहमत्र कतिपय सरसश्लोकाः, कथाः, वार्ताः, विनोदकणिकाश्च लिखामि। तत् भवद्‌भ्यः रोचते वा न वा इति कृपया मां सूचयन्तु।

4 thoughts on “मम विषये

  1. शङ्कर, भवता लिखितान् लेखान् दृष्टवानस्मि। काश्चन कथाः प्रसिद्धाः, काश्चन कथाश्च अप्रसिद्धाः। एतासाम् अत्र प्रकाशनेन मादृशानां ज्ञानम् अभिवर्धते। अभिरुचिश्च जायते संस्कृतभाषायाः इतोपि अधिकतरं ज्ञानं प्राप्तुम्। अपि च यद् भवान् संस्कृतभाषायां वर्तमानानां ग्रन्थानाम् एवंरूपेण सुलभप्राप्तिं करोति, तत्तु अनल्पयाः प्रशंसायाः पात्रम्।अधुना बहवो ग्रन्था मुद्रिता अपि बहुव्ययेनैव क्रेतव्या भवन्ति। एतत्तु चिन्ताकारणम्। तस्माद् भवादृशां संस्कृतप्रेमिणामयमुद्योगो मादृशां जनानां मनस्सु नूतनामाशां सञ्चारयति। भवदीयः श्रमः अत्यन्तं श्लाघनीयः। वस्तुतस्तु भवदीयोयम् उद्यमं स्तोतुम् अक्षराण्येव विरलानि।
    जगन्नाथः, मैसूरु।

Leave a reply to bharateeya जवाब रद्द करें