A Poet’s Dilemma – नमः प्रामाण्यवादाय

पुरा दक्षिणात्यः कश्चित् कविः न्यायशास्त्रमध्येतुं इच्छन् वंगदेशे नवद्वीपं गतवान्। तद्दिनेषुव् अधिकशः नैय्यायिकाः प्रायेण वंगदेशे निवसन्ति स्म। सः तत्र कस्यचन विश्रुतस्य नैय्यायिकस्य गुरुकुले “प्रामाण्यवादं” अध्येतुं प्रारभत। सरसहृदयाय तस्मै न्यायशास्त्राध्ययनं अत्यन्तं दुष्करं संवृत्तम्। न्यायमध्येतुं तेन कृतानि सर्वाण्यपि प्रयत्नानि निष्फलाः अभवन्। काव्यादीनि निर्माय तेन यद् धनमार्जितं तत् सर्वं एतस्मिन् नवीने उद्यमे व्ययितम्, तथा च तस्य कवित्वमपि नष्टं गतम्। यदि कवित्वं न नष्टं स्यात् तर्हि स भूयः धनोपार्जनार्थं समर्थः स्यात्। कवित्वहीनः सः अन्ते एवं व्यलपयत् “नमः प्रामाण्यवादाय मत्कवित्वापहारिणे” इति।

A Parable On “Conquering Anger” – मन्निन्दया यदि जनः परितोषमेति…

पुरा कस्मिंश्चित् देशे एकः क्रोधालुः राजा आसीत्। सः प्रायः क्रोधाकुलो भूत्वा अकर्तव्यानि कृत्वा अनन्तरं दुःखं च अनुभवति स्म। अतः सः स्वस्य क्रोधं निग्रहीतुमिच्छन् गुरोः आश्रमं अगच्छत्। गुरुः तं एवं उपदिष्टवान् “अद्य आरभ्य एकं संवत्सरं यः कोऽपि भवन्तं प्रकोपयति तेन सह क्रोधः न प्रदर्शनीयः, परन्तु तस्मै शतरूप्यकाणि दातव्यानि। एवं चेत् एकसंवत्सरानन्तरं भवतः मनसि कोपः कदापि न भवति” इति। गुरुं प्रणम्य, तस्य उपदेशं शिरसा वहन् राजा ततः प्रत्यागतः।

तदनन्तरं यदि केऽपि राजानं प्रकोपयन्ति अथवा निन्दयन्ति चेत् राजा तेभ्यः धनं दत्वा तेषां सम्मानं करोति स्म। एवं संवत्सरमेकं व्यतीतम्। ततः परं एकदा कश्चित् ब्राह्मणः राज्ञः अवहेलनं कृतवान्, तथापि राज्ञः मनसि क्रोधः मनागपि नोत्पन्नः। परन्तु सः उच्चैः हसन् तं ब्राह्मणं एवं अवदत् “संवत्सरमेकं अहं धनं दत्वा अप्रियवाक्यानि शृण्वन्नासम्। इदानीं भवान् मां विना मूल्यं निन्दितवान्। एतत्तु मम लाभाय एव” इति। एतदनन्तरं स राजा न कदापि क्रोधाधीनो भूत्वा अकरणीयं किमपि कृतवान्। अस्य राज्ञः दृष्टिः परिवर्तिता इत्यतः इतः पूर्वं ये निमित्तानि एनं प्रकोपितवन्तः ते इदानीं तदर्थं अशक्ता अभवन्। मनसः परिवर्तनमेव क्रोधं निग्रहीतुं सरलः उपायः।

अत एव केनचित् कविना एवमुक्तम् –

मन्निन्दया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।
लोके जना हि जनतापरितोषणाय दुःखार्जितान्यपि धनानि परित्यजन्ति॥

A parable – Glory of wisdom – यत्सारभूतं तदुपासितव्यम्

एकदा कश्चित् राजा तस्य जन्मदिने कारागारं गत्वा तत्रस्थान् सर्वान् बन्दिनः एवं उक्तवान् “अद्य मम जन्मदिवसः। अहं अतिप्रसन्नोऽस्मि। अतः भवत्सु प्रत्येकः मत्तः वरमेकं वृणीतुं शक्यते।” इति॥

कश्चित् बन्दी अवदत्, “हे राजन्, कृपया मह्यं कम्बलमेकं ददातु” इति।
अन्यः कश्चित् पृष्टवान् , “हे राजन्, कृपया मह्यं नवीनं उपानहं ददातु” इति।
अपरः कश्चित् बन्दी प्रार्थितवान्, “हे राजन्, कारागारे मम कक्षे वातायन एव नास्ति, कृपया तन्निर्मातुं व्यवस्थां करोतु” इति। अन्या अपि एवमेव क्षुद्रपदार्थाः एव प्रार्थितवन्तः। तेषां सर्वेषां अभिलाषाः राज्ञा सद्य एव साधिताः।

अन्ते, कश्चन बन्दी राजानं प्रणम्य एवं अवदत्, “हे राजन्, मम एक एव अभिलाषः अस्ति, मां अस्मात् कारागृहात् मोचयतु” इति। एतत् श्रुत्वा राजा भृशं प्रसन्नो भूत्वा तं बन्दिनं कारागारात् व्यमोचयत्। यावत् बन्दिनः कारागारे बद्धाः सन्ति तावत् तेषां क्लेशाः निश्चयेन भवेयुः। तेषां सर्वानामपि क्लेशानां निवारणाय एक एव उपायः अस्ति – कारागारात् मोचनम्। तथापि केवलं एक एव तदर्थं प्रार्थितवान्।

एवमेव अस्मिन् लोके जनानां येऽपि क्लेशाः सन्ति तेषां सर्वेषां निवारणाय एक एव उपाय अस्ति – अस्मात् संसारात् मोचनम्। एतत् अजानन्तः सर्वे धन-मान-अधिकाराणां सम्पादनार्थं प्रयत्नं कुर्वन्ति। मनुष्याणां कश्चित् एकः विवेकी पुरुष एव मोक्षाय प्रयत्नं करोति। अत एव भगवता उक्तं “मनुष्याणां सहस्रेषु कश्चित् यतति सिद्धये…” इति।

Who am I? – A Story from Ramana Maharshi कोऽहं कस्त्वम्

Sri Ramana Maharshi

गुरुः शिष्यं प्रति आत्मस्वरूपं कथं बोधयति इत्यस्य उत्तमदृष्टान्तमस्ति विष्णुपुराणान्तर्गता एषा कथा।

निदघः ऋभुमुनेः शिष्यः आसीत्। सः गुरुकुले कानिचन वर्षाणि उषित्वा विद्याध्ययनं कृत्वा तत्समाप्य स्वगृहं प्रत्यगच्छत्। “आत्मैवेदं सर्वम्” इति तेन गुरुमुखात् श्रुतमासीत् तथापि तस्य आत्मबोधो न सञ्जातः। ऋभुः स्वशिष्यं अत्यन्तं स्निह्यति स्म। अतः सः निदघस्य अज्ञानं दूरीकरोतुं इदानीं उचितः कालः इति चिन्तयित्वा एकस्य स्थविरस्य ग्रामीणस्य रूपं धृत्वा निदघस्य ग्रामं समागतः। तदा निदघः तद्देशस्य राज्ञः तत्परिजनस्य च प्रस्थानं निरीक्षमाण आसीत्। ग्रामीणः निदघस्य समीपं गतवान्। तयोर्मध्ये एषः संवादः संवृत्तः।

ग्रामीणः (ऋभुः) – किमर्थं एषः कोलाहलः?
निदघः – राजा गच्छति।
ग्रामीणः – बहवः जनाः सन्ति। तेषां राजा कः?
निदघः – यः हस्तिनः उपरि उपविशति स राजा।
ग्रामीणः – राजा गजस्योपरि इति भवता उक्तम्। अहं द्वावपि पश्यामि, परन्तु तयोः को राजा, गजः कः इति न जानामि।
निदघः – (रोषेण) किम्! यदि भवान् द्वावपि पश्यति तथापि उपरिष्ठः राजा, तस्य अधः गजः इति न जानाति चेत् भवता सह भाषणमेव व्यर्थम्।
ग्रामीणः – मादृशं अज्ञं प्रति क्षमा प्रदर्शितव्या भवता। ’उपरि’ एवं ’अधः’ इति द्वौ शब्दौ भवता प्रयुक्तौ, तयोः को अर्थः?

ग्रमीणस्य मौढ्यं इतोऽप्यधिकं सोढुं असमर्थः निदघः बलात् तस्य स्कन्धमारुह्य “राजः गजोपरि” इव उपविश्य तं उक्तवान् “जानातु इदानीं। अहं राजवत् उपरि अस्मि। त्वं गजवत् अधः अपि। इदानीं अवगतं वा?”
ग्रामीणः – पूर्णतया न अवगतं। ’राजा, गजः, उपरि एवं अधः’ एतावत् अवगतवान्। परन्तु ’अहं’ एवं ’त्वं’ किमिति न जानामि। कृपया मां वदतु कोऽहं, कस्त्वं इति च।

“कोऽहं” एवं “कस्त्वं” इति अतिगहनां समस्यां सम्मुखीकृत्य निदघः झटित्येव निर्विचारसमाधिं अनुभूतवान्। तदनन्तरं निदघः एषः ग्रामीणः स्वस्य परमादरणीयः गुरुवर्यः एव इत्यभिज्ञाय गुरुं विधिवत् प्रणम्य सत्कृत्य एवं अवदत् “भवत्कृपया अहं अद्य आत्मस्वरूपं किमिति ज्ञात्वा धन्योऽभवम्। मां सदा अनुग्रह्णातु।”

एषा कथा भगवता रमणेन पुनरुक्ता “spiritual stories” नामके ग्रन्थे आङ्गलभाषायां उपलभ्यते।

Kalidasa surprises Bhoja Raja – तव बाधति बाधते

कालिदासः एकदा रात्रौ छद्मवेषं धृत्वा नगरे अटन् आसीत्। परेद्युः प्रातः काले भोजराजस्यापि कुत्रापि गन्तव्यमासीत्। राज्ञः शिबिकां वोढुं वाहकाः अपर्याप्ता इत्यतः राजभटाः नगरवीथिषु अटन्तं छद्मवेषधारिणं कालिदासं शिबिकां वोढुं नियुक्तवन्तः। एतादृशे कर्मसु कालिदासस्य अभ्यासः नासीत् इत्यतः सः अचिरात् एव श्रान्तः अभवत्।

श्रान्तं कालिदासं वीक्ष्य कारुणिकः भोजराजः अपृच्छत् “अयं आन्दोलिकादण्डस्तव बाधति वा न वा” इति। कालिदासः प्रत्यवदत् “नायमान्दोलिकादण्डः तव बाधति बाधते” इति। तत् श्रुत्वा, एषः शिबिकावाहकः न सामान्यः कोऽपि परन्तु मम प्रेष्ठः कालिदास एव इति ज्ञात्वा भोजराजः कालिदासं शिबिकायां आसनं प्रदत्तवान्।

भोजराजेन प्रयुक्तः “बाधति” शब्दः सदोषः आसीत् इति सुव्यक्तम्।

Why Goddess of wealth does not stay with Brahmins – लक्ष्मीः किमर्थं ब्राह्मणानां गृहेषु न निवसति?

एकदा वैकुण्ठनाथो विष्णुः लक्ष्मीदेवीं अपृच्छत् “किमर्थं भवती ब्राह्मणानां गृहेषु न निवसति?” इति।
तस्याः प्रत्युत्तरं एकस्मिन् श्लोके केनापि सुकविना लिखितम्। अस्मिन् श्लोके लक्ष्मीः वदति किमर्थं सा (सम्प्दाः) ब्राह्मणगृहेषु न वर्तते इति।

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद्
आबाल्याद् विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे।
गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं
तस्मात् खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि॥

श्लोकस्यास्य संक्षेपेण विवरणं अत्र दीयते।

पीतः क्रुद्धेन तातः – पुरा अगस्त्यः क्रुद्धो भूत्वा मत्पितरं समुद्रं पीतवान्। अगस्त्यः ब्राह्मणः आसीत्।
चरणतलहतो वल्लभो येन रोषाद् – भृगुमुनिः एकदा रोषाद् पादतलेन विष्णुं प्रहृतवान्। भृगुरपि ब्राह्मणः आसीत्।
आबाल्याद् विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे – विप्राः बाल्यतः मम वैरिणीं सरस्वतीमेव तेषां मुखेषु धार्यन्ते। अर्थात् ते सर्वदा वाग्देव्या एव उपासनां कुर्वन्ति।
गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं – ब्राह्मणाः शिवपूजार्थं प्रतिदिनं मम गृहं (कमलं) छेदयन्ति।

अन्तिमपादं तु सुव्यक्तं इत्यतः टीप्पणी नावश्यका।

Bhakta Surdas Challenges God – हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥

भक्तः सूरदासः (१४७८-१५८१ CE)

भक्तः कः इत्यस्य नूतनमेकं व्याख्यानं मया अधुना श्रुतम् – “यो न विभक्तः स भक्तः”। अर्थात् यो भगवतः कदापि न “विभक्तः” स एव वास्तविकः भक्तः इति।

तत्वमेतत् प्रतिपादयितुं महात्मनः सूरदासस्य (१४७८-१५८१ CE) जीवनतः उद्धृतः एषः प्रसङ्गः अत्यन्तं समीचीन इति मन्ये। सूरदासस्य भक्त्या परितुष्टः भगवान् बालकृष्णः तेन सह क्रीडितुं सल्लपितुं च अनुदिनं तस्य सकाशं आगच्छति स्म। एकदा बालकृष्णः सूरदासस्य अङ्के उपविश्य तेन सह सप्रेमं सल्लपन्, पायसान्नं खादन् च आसीत्। अकस्मात् कृष्णः लीलया सूरदासस्य अङ्कात् उत्थाय दूरं गतवान्। बालकृष्णं अवरोद्धुं अन्धेन वृद्धेन च सूरदासेन कृतम् प्रयत्नं विफलमभवत्। तदा सूरदासः कृष्णमुद्दिश्य एवमवदत् –

हस्तमुत्क्षिप्य यातोसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥

विरलः कश्चित् भक्तः यः स्वहृदये ईश्चरस्य समुपस्थितिं सततं अनुभवति सः एव भगवन्तं अपि एवं आह्वयितुं शक्यते। एतादृशानां विषये एव नारदेनापि एवमुक्तं “तीर्थीकुर्वन्ति तीर्थानि.. मोदन्ते पितरो, नृत्यन्ति देवताः, सनाथा चेयं भूर्भवति” इति (नारदभक्तिसूत्राणि ६९, ७१).

श्रीकृष्णलीलाः अधिकृत्य सूरदासेन विरचितं अष्टसहस्रपद्यमितं “सूरसागरम्” अद्यापि सहस्रावधि अनुवाचकान् भक्तिरससागरे आमज्जयन्नस्ति। यावत् लोके कृष्णभक्तिः वर्तिष्यति तावत् सूरदासः अपि जनहृदयेषु विराजयिष्यति।

Glory of a Chaste Woman – हुताशनश्चन्दनपङ्कशीतलः – A Samasya Pooranam by Kalidasa

एकदा भोजराजः छद्मवेषं धृत्वा धारानगर्यां अटन्नासीत्। तत्र एकस्मिन् गृहे सः एकं विलक्षणं दृश्यं व्यलोकयत्। तस्मिन् गृहे कश्चित् पुरुषः पत्न्याः अङ्के शिरः संस्थाप्य शयान आसीत्। तदा अकस्मात् तयोः अल्पवयस्कः बालकः महानसे अग्नौ अपतत्। भयानकं तं दृश्यमवलोक्य अपि, भर्तुः निद्रायाः भञ्जनं कर्तुं न इच्छन्त्या तया स्वपतिः न उत्थापितः। तथापि तस्याः पातिव्रत्यस्य बलेन शीतलीभूत इव पावकः तं बालकं मनागपि न बाधितवान्। संवृत्तमेनं संपश्य विस्मितो भूत्वा भोजराजः स्वमन्दिरं प्रत्यगच्छत्। परस्मिन् दिने सः “हुताशनश्चन्दनपङ्कशीतल:” इत्यस्याः समस्यायाः पूरणं कर्तुं स्वसदस्येभ्यः अपृच्छत्। एषा समस्या अपि कालिदासेन एव एवं पूरिता।

सुतं पतन्तं सुसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता।
तदाऽभवत् तत्पतिभक्तिगौरवात् हुताशनश्चन्दनपङ्कशीतलः॥

पूर्ववृत्तान्तं मांसचक्षुषा अपश्यता अपि कालिदासेन ज्ञानचक्षुषा एव संवृत्तमखिलं ज्ञातमिति अवगम्य भोजराजः महता आदरेण तं प्रभूतं स्वर्णं, कौशाम्बरं च दत्वा सम्मानितवान्।

कपटधार्मिकः बकः – Pseudo-righteous Heron

एषा कथा वाल्मीकेः रामायणे अस्ति वा न वा इति नाहं जानामि। तथापि एषा कथा नितरां रुचिरास्ति इत्यतः एतस्याः कथनं अत्र युक्तमिति मन्ये।

एकदा श्रीरामलक्षणौ पम्पानद्यां स्नानार्थं गतवन्तौ। तत्र तौ शनैः शानैः चलन्तं एकं जरठं बकं अपश्यताम्। एनं दृष्ट्वा श्रीरामः लक्ष्मणं एवं अब्रवीत् –

“पश्य लक्ष्मण पम्पायां बकोयं परमधार्मिकः।
शनैः शनैः पदं धत्ते जीवानां वधशंकया॥”

एतद् निशम्य तत्रस्थः कश्चित् मण्डूकः श्रीरामं एवं न्यवेदयत्।

सहवासी विजानाति सहवासी विचेष्टितम्।
बकोऽयं वर्ण्यते राय तेनाहं निष्कुलीकृतः॥

दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम् – A Samasya Pooranam by Kalidasa

एकस्मिन् दिने भोजराजः छद्मवेषं धृत्वा नगरे अटन्नासीत्। तेन विलक्षणमेकं दृश्यं दृष्टम्। एकस्मिन् गृहे काश्चन युवतिः काकरवं श्रुत्वा भृशं भीता अभवत्। तद् दृष्ट्वा तस्याः पति अचिन्तयत् “एषा वस्तुतः पतिव्रता एव। काकरवमपि असह्यमाना एषा परपुरुषाणाम् स्पर्शाद् मूर्च्छां गमिष्यत्येव” इति। तस्याः सौशील्येन स नितरां सन्तुष्टः अपि अभवत्।

परन्तु तस्याः आचरणे जातशंकः भोजराजः तां निरीक्षितवान्। रात्रौ यदा तस्याः पतिः सुषुप्तोऽभवत् तदा सा गृहात् बहिः आगत्वा नर्मदायाः तीरं गतवती। भोजराजः अपि तां अनुसृतवान्। सा तत्र जले वसतां ग्राहानामपि भीतिं विना नदीं तीर्त्वा जारसमागमार्थं परं पारं गतवती।

सर्वमेतद् दृष्ट्वा विस्मितो भूत्वा भोजराजः परेद्युः राजसदसि “दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम्।” इति समस्यां पूरणार्थं अयच्छत्। ऋते कालिदासं नान्यः कोऽपि एतस्याः समस्यायाः पूरणं कर्तुं शक्तोऽभवत्। अन्ततः कालिदासः एव एतस्याः पूरणं एवमकरोत् – “तत्र सन्तु जले ग्राहाः मर्मज्ञा सैव सुन्दरी॥”

कालिदासस्य कवित्वं अंतर्ज्ञानं च दृष्ट्वा सन्तुष्टो भूत्वा भोजराजः तं यथोचितं समादृतवान्।