महाभारत-रामायण-वेदानां कालनिर्णयः – Scientific dating of Mahabharata, Ramayana & Vedas

cover dating ramayana
अस्मत्पूर्वजैः एतद्देशस्य इतिहासः न सम्यक् लिखितः इति प्रायशः वयं सर्वे चिन्तयामः। अस्माकं इतिहासस्य कालानुक्रमविषयेऽपि वैदेशिकाः भारतीयाश्च पण्डिताः न एकमताः। श्रीरामः श्रीकृष्णः कश्चिदन्यः महापुरुषो वा कस्मिन् शतके जीवन्नासीदिति याथातथ्येन वक्तुं इतः पर्यन्तं दुष्करमेवासीत्।

परन्तु अधुना पुण्यनगरवासिना डा. पद्मनाभ विष्णु वर्तक वर्येण त्रिंशत् वर्षाणां अनुसन्धानानन्तरं महाभारत-रामायणयोः वेदस्य च कालाः निर्णीताः। एतेषु ग्रन्थेषु सूचितानां ज्यौतिषिकोल्लेखानां, पौराणिकैः पाषाणशिलालेखैः, ऐतिहासिक प्रमाणैश्च सह समर्थयित्वा डा. वर्तकवर्यः रामायणभारतादीनां कालनिर्णयं कृतवान्।

डा. वर्तकस्य मतमनुसृत्य महाभारतयुद्धं क्रिस्तोः पूर्वं ५५६२ वर्षे, रामरावणयोः संग्रामः क्रिस्तोः पूर्वं ७२९२ वर्षे च अभवताम्। तथा च ऋग्वेदस्य आदिमसूक्तानां रचना क्रिस्तोः पूर्वं २३७२० तमे वर्षे अभवत् इत्यपि सः निर्णीतवान्। एतद्विषये डा. वर्तकवर्येण आङ्गलभाषायां पुस्तकद्वयं रचितमस्ति। ते द्वेऽपि पुस्तके इदानीं अन्तर्जालके उपलभ्येते। एतयोः अन्वये अधः प्रदत्ते स्तः।

The Scientific Dating of Mahabharata War

The Scientific Dating of Ramayana and the Vedas

vartakग्रन्थकारस्य सङ्केतः
डा. पी. वी. वर्तक्,
५५१, शनिवार् पेठ्,
पुणे, महाराष्ट्रम्
दूरध्वनिः – ०२०-२४४५०३८७
कार्यसमयः – प्रातः ९-११ एवं सायं ६-८

संस्कृतं सुगमतया अधीतुं भंडार्कर् वर्यस्य ई-पुस्तके

cover first book of sanskritसंस्कृतं सुगमतया अधीतुं भंडार्कर् वर्यस्य ई-पुस्तके – First & Second Books of Sanskrit by R. G. Bhandarkar

आर्. जी. भंडार्करस्य एते द्वे पुस्तके १८८३ मध्ये प्रथमतया प्रकाशिते। ततः परं इतः पर्यन्तं एते पुस्तके संस्कृतविध्यार्थीनां कृते अनुपेक्षणीये आस्ताम्। भंडार्करेण एतयोः पुस्तकयोः चत्वारि विषयानि अधिकृत्य पाठाः रचिताः।

१. संस्कृतभाषायाः व्याकरणम्
२. संस्कृतवाक्यानां आङ्गलभाषान्तरीकरणम्
३. आङ्गलभाषावाक्यानां संस्कृतभाषान्तरीकरणम् एवम्
४. शब्दसञ्चयस्य विकासः (Vocabulary building)

व्याकरणविषये भंडार्कर् वर्यः सिद्धान्तकौमुदीमेव अनुवर्तितवान् इत्यतः ये छात्राः संस्कृतव्याकरणे अवगाहं प्राप्तुमिच्छन्ति तेषां कृते अपि एते पुस्तके उपयुक्ते भवेताम्।

प्रथमं पुस्तकं अवनेतुं अन्वयः

द्वितीयं पुस्तकं अवनेतुं अन्वयः

तिरुक्कुरळ् संस्कृतभाषायाम् – Tirukkural in Sanskrit

tiruvalluvar
तिरुवळ्ळुवर्येण क्रिस्तोः पूर्वं प्रथमे शताब्दे रचिते तितुक्कुरळ् तमिळ् वेद इति नाम्ना सुविदितम्। इदानीं संस्कृतभाषायां तिरुक्कुरळ् एतस्मिन् जालपुटे उपलभ्यते।

स्कन्धत्रयात्मके अस्मिन् ग्रन्थे १३३ अध्यायेषु १३३० श्लोकाः सन्ति। अरम् इत्याख्ये प्रथमस्कन्धे स्वधर्मस्य पालनं कथं कर्तव्यम् इति वर्णितमस्ति। पोरुळ् इत्याख्ये द्वितीये स्कन्धे मानवजीवनस्य किमर्थं इत्युक्तम्। इन्बम् इत्याख्ये तृतिये स्कन्धे गार्हस्थ्यजीवने यत्सुखं अनुभवितुं शक्यते इत्यपि वर्णितमस्ति। एवं त्रिभिः स्कन्धैः भारतीयसंस्कृतेः आधारशिलाभूतानां “धर्मार्थकामानां” विषये तिरुवल्लुवरेण सम्यक् उपन्यस्तमस्ति।

अस्य संस्कृतानुवादकः श्री. एस्. एन्. श्रीरामदेशिकवर्येण तिरुप्पावै, चिलप्पतिकारम्, कम्बरामायणम् इत्यादीनां बहूनां तमिल् ग्रन्थानामपि संस्कृतानुवादं कृतमस्ति।

संस्कृतभाषायां तिरुक्कुरळ् पठितुं जालपुटमेतत्संदर्शयन्तु|
http://nvkashraf.co.cc/kursan/sancont.htm

TOUNGE OF THE PROPHETS – आङ्गलेयग्रन्थनिरूपणम्

BYworkहेब्रू भाषायाः नवोत्थाननायकस्य बेन् यहूदस्य (१८५८-१९२२) जीवचरितमेतत्। एतत्पुस्तकं आङ्गलभाषायमस्ति चेदपि अस्मत्कृते संस्कृतपठनार्थं, प्रचारणार्थं च महती प्रेरणास्पदं स्यात्।

बेन् यहूदः हेब्रू भाषायाः पुनरुज्जीवनार्थं, इस्रेल् देशस्य स्थापनार्थं च स्वजीवितं समर्पयत् ।स्वस्य व्याधिं, प्रथमपत्न्याः कतिचन पुत्राणं च मृत्युं, आर्थिकक्लेशं च अविगणय्य सः स्वदौत्यनिर्वहणे अविरतं निमग्न अवर्तत। बहवः बन्धुमित्रादयः तं अवज्ञात्वा अनिन्दयन्। तथापि, सः विदेशेभ्यः यहूदान् इस्रेल् आनेतुं एकं आन्दोलनं प्रारभ्य तान् हेब्रू भाषायाः द्वारा समयोजयत् च। हेब्रू भाषायाः पुनरुज्जीवनार्थं बेन् यहूदः स्वयं तस्यां भाषायां बहूनां नूतनपदानां आविष्कारं कृतवान् इत्येव एतस्य वास्तविककथायाः एकं वैचित्र्यं ।यतः हेब्रू सुदीर्घकालं मृतवत् आसीत्, ततः नवीनतम वस्तूनां कृते तस्यां समानपदानि न आसन्।

बेन् यहूदः तत्कालीन हेब्रू भाषायं महदनुसन्धानं कृत्वा, कानिचन पदानि किंचित् परिवर्तयित्वा च नूतन पदानां आविष्कारं कृतवान्।सः हेब्रू भाषायाः एका नूतना निघन्टु च अरचयत्।

बेन् यहूदस्य एषा आख्यायिका अत्यर्थं प्रेरणास्पदास्ति।एवमेव संस्कृत भाषायाः उज्जीवनं किं वयं कर्तुं शक्नुमः?

अवनयतु (डौण्‍लोड्)

टिप्पणी : बेन् यहूदस्य चरितं इदानीं भवन्तः संस्कृतभाषायां पठितुं शक्यन्ते। संस्कृतभारत्या एतत् भाषान्तरीकृत्य “भुवमानीता भगवद्भाषा” इति नाम्ना प्रकाशितमस्ति।

राघवयादवीय़म् – एकं विलोमकाव्यं – A bi-directional poetry

वयं सर्वे “पालिन्ड्रोम्” (Palindrome) किमिति जानीमः । “विकटकवि” अस्य एकः सामान्यदृष्टान्तः ।

परंतु, विलोमकाव्यं इतो‍पि किंचित् विलक्षणम् । तत् न पालिन्ड्रोम्; तस्य वामतः, दक्षिणतश्च पठामः चेत् द्वे भिन्ने अर्थौ स्तः। अतः एतत् अनुलोमविलोमकाव्यमिति कथ्यते ।

“राघवयादवीयम्” इति काव्यात् श्लोकमेकं अत्र दास्यामि । वामतः पठितः चेत् एषः श्लोकः श्रीरामस्य चरितमस्ति । दक्षिणतः पठितः चेत् तदेव श्लोकः यादवस्य श्रीकृष्णस्य चरितं वर्णयति ।

वन्देऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥

“I pay my obeisance to Lord Shri Rama, who with his heart pining for Sita, travelled across the Sahyadri Hills and returned to Ayodhya after killing Ravana and sported with his consort, Sita, in Ayodhya for a long time.”

Same sloka in reverse

सेवाध्येयो रामालाली गोप्याराधी मारामोरा ।
यस्साभालंकारं तारं तं श्रीतं वन्देहं देवं ॥

“I bow to Lord Shri Krishna, whose chest is the sporting resort of Shri Lakshmi;who is fit to be contemplated through penance and sacrifice, who fondles Rukmani and his other consorts and who is worshipped by the gopis, and who is decked with jewels radiating splendour.”

एतद्विषये अधिकं ज्ञातुं, राघवयादवीयं पूर्णं पठितुं च एतत् जालपुटं पश्यन्तु ।