तद्दिनेषु (1899-1916) श्रीरमणः अरुणाचले विरूपाक्षगुहायां वसति स्म । एकदा गणपति मुनिः तस्य दर्शनार्थं समागतवान् । गणपति मुनिः संस्कृतपाण्डित्ये अप्रतिमः, वेदवेदांगपारंगतोऽपि आसीत् । तस्य बहवः शिष्याः अपि आसन् । तथापि सः एकं प्रामाणिकं अध्यात्मिकगुरुं अन्विष्यमान आसीत् । सः श्रीरमणाय प्रणाममकरोत् । श्री रमणः कृपार्द्रदृष्ट्या तं वीक्षितवान् ।
तदा एकः भक्तः गणपति मुनिः महान् विद्वान् इति ज्ञात्वा तं पृष्टवान्, “शुक्लांबरधरं विष्णुं.. इत्यस्य श्लोकस्य व्याख्यानं करोतु” इति. “एतस्य श्लोकस्य बहवः व्याख्यानाः सन्ति” इत्युक्त्वा मुनिः एनं श्लोकं विष्णोः, ब्रह्मणः, गणेशस्य च सम्बन्धे व्याख्यातवान् । तदनन्तरं “श्री रमणस्य विषये अपि एनं श्लोकं व्याख्यातुं शक्यते” इत्युक्त्वा सः एवं अवर्णयत्।
शुक्लाम्बरधरम् – यः शुक्लवर्णं वस्त्रं धरति ।
विष्णुम् – यः आत्मरूपेण सर्वत्र व्याप्तः अस्ति ।
शशिवर्णम् – यस्य वर्णं धवलमस्ति ।
चतुर्भुजम् – यः नाहं “मनोबुध्यहंकारचित्तानि” परन्तु आत्मा एव इति ज्ञात्वा तानि चत्वारि भुक्तवानिति चतुर्भुक् ।
प्रसन्नवदनम् – यस्य मुखं प्रसन्नमस्ति ।
ध्यायेत् सर्वविघ्नोपशान्तये – एतादृशं श्रीरमणं सर्वविघ्नानां उपशान्तयर्थं ध्यायेत् ।
एतद् श्रुत्वा सर्वे श्रोतारः विस्मिता अभवन्, श्रीरमणः गणपति मुनिं सस्मितं वीक्षितवान् च ॥