महाभारत-रामायण-वेदानां कालनिर्णयः – Scientific dating of Mahabharata, Ramayana & Vedas

cover dating ramayana
अस्मत्पूर्वजैः एतद्देशस्य इतिहासः न सम्यक् लिखितः इति प्रायशः वयं सर्वे चिन्तयामः। अस्माकं इतिहासस्य कालानुक्रमविषयेऽपि वैदेशिकाः भारतीयाश्च पण्डिताः न एकमताः। श्रीरामः श्रीकृष्णः कश्चिदन्यः महापुरुषो वा कस्मिन् शतके जीवन्नासीदिति याथातथ्येन वक्तुं इतः पर्यन्तं दुष्करमेवासीत्।

परन्तु अधुना पुण्यनगरवासिना डा. पद्मनाभ विष्णु वर्तक वर्येण त्रिंशत् वर्षाणां अनुसन्धानानन्तरं महाभारत-रामायणयोः वेदस्य च कालाः निर्णीताः। एतेषु ग्रन्थेषु सूचितानां ज्यौतिषिकोल्लेखानां, पौराणिकैः पाषाणशिलालेखैः, ऐतिहासिक प्रमाणैश्च सह समर्थयित्वा डा. वर्तकवर्यः रामायणभारतादीनां कालनिर्णयं कृतवान्।

डा. वर्तकस्य मतमनुसृत्य महाभारतयुद्धं क्रिस्तोः पूर्वं ५५६२ वर्षे, रामरावणयोः संग्रामः क्रिस्तोः पूर्वं ७२९२ वर्षे च अभवताम्। तथा च ऋग्वेदस्य आदिमसूक्तानां रचना क्रिस्तोः पूर्वं २३७२० तमे वर्षे अभवत् इत्यपि सः निर्णीतवान्। एतद्विषये डा. वर्तकवर्येण आङ्गलभाषायां पुस्तकद्वयं रचितमस्ति। ते द्वेऽपि पुस्तके इदानीं अन्तर्जालके उपलभ्येते। एतयोः अन्वये अधः प्रदत्ते स्तः।

The Scientific Dating of Mahabharata War

The Scientific Dating of Ramayana and the Vedas

vartakग्रन्थकारस्य सङ्केतः
डा. पी. वी. वर्तक्,
५५१, शनिवार् पेठ्,
पुणे, महाराष्ट्रम्
दूरध्वनिः – ०२०-२४४५०३८७
कार्यसमयः – प्रातः ९-११ एवं सायं ६-८

तिरुक्कुरळ् संस्कृतभाषायाम् – Tirukkural in Sanskrit

tiruvalluvar
तिरुवळ्ळुवर्येण क्रिस्तोः पूर्वं प्रथमे शताब्दे रचिते तितुक्कुरळ् तमिळ् वेद इति नाम्ना सुविदितम्। इदानीं संस्कृतभाषायां तिरुक्कुरळ् एतस्मिन् जालपुटे उपलभ्यते।

स्कन्धत्रयात्मके अस्मिन् ग्रन्थे १३३ अध्यायेषु १३३० श्लोकाः सन्ति। अरम् इत्याख्ये प्रथमस्कन्धे स्वधर्मस्य पालनं कथं कर्तव्यम् इति वर्णितमस्ति। पोरुळ् इत्याख्ये द्वितीये स्कन्धे मानवजीवनस्य किमर्थं इत्युक्तम्। इन्बम् इत्याख्ये तृतिये स्कन्धे गार्हस्थ्यजीवने यत्सुखं अनुभवितुं शक्यते इत्यपि वर्णितमस्ति। एवं त्रिभिः स्कन्धैः भारतीयसंस्कृतेः आधारशिलाभूतानां “धर्मार्थकामानां” विषये तिरुवल्लुवरेण सम्यक् उपन्यस्तमस्ति।

अस्य संस्कृतानुवादकः श्री. एस्. एन्. श्रीरामदेशिकवर्येण तिरुप्पावै, चिलप्पतिकारम्, कम्बरामायणम् इत्यादीनां बहूनां तमिल् ग्रन्थानामपि संस्कृतानुवादं कृतमस्ति।

संस्कृतभाषायां तिरुक्कुरळ् पठितुं जालपुटमेतत्संदर्शयन्तु|
http://nvkashraf.co.cc/kursan/sancont.htm

बजाज् डिस्कवर् विज्ञापने संस्कृतग्रामः – SANSKRIT VILLAGE IN BAJAJ DISCOVER TVC ADVT.

sanskrit village
किं भवन्तः बजाज डिस्कवर् द्विचक्रिकायाः (bajaj discover bike) नूतनं विज्ञापनं दृष्टवन्तः? गतमासे प्रदर्शिते अस्मिन् विज्ञापने एवं उक्तं “केवलं एकलिटर् मितं अग्नितैलं (petrol) अस्ति चेव् वयं इतिहासे पञ्चसहस्रवर्षाणि प्रयाणं कर्तुं शक्नुमः।” यदा एकः युवकः बजाज डिस्कवर् द्विचक्रिकायां मट्टूर् ग्रामं आगच्छति तदा ग्रामीणाः सर्वे तं प्रबोधयन्ति यत् अग्रे मार्गः अवरुद्धः इति। सः युवकः आश्चर्यभरितः अभवत् यतः ते सर्वे संस्कृतभाषायामेव भाषणं कुर्वन्तः आसन् । एवं सः केवलं एकलिटर् मितं अग्नितैलं (petrol) अस्ति चेव् वयं इतिहासे पञ्चसहस्रवर्षाणि प्रयाणं कृतवान्। कर्णाटकदेशे षिमोगा जिलायां स्थिते मट्टूर् नामके अस्मिन् संस्कृतग्रामे सर्वे जनाः संस्कृतज्ञाः एव।

अस्य चित्रमुद्रिका (video) या यूट्यूब् मध्ये तथा च बजाज आटो संस्थायाः जालपुटे अस्ति तद् दृष्ट्वा नन्दन्तु। तस्याः अन्वयौ एतौ –
http://www.youtube.com/watch?v=NjRzLLSNmXQ
http://www.bajajauto.com/2wheeler/new_discover/tvc.html