
A Panchatantra relief at the Mendut temple, Indonesia
साम-दान-भेद-दण्डानां चतुर्णां उपायानां कः उपायः केन सह प्रयोक्तव्य इति पञ्चतन्त्रान्तर्गतः एषः श्लोकः सम्यक् वर्णयति।
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदादेन समशक्तिं पराक्रमैः ॥
Win a strong and virtuous adversary by bowing down to him (Sama); a valiant adversary by creating fear or jealousy in his mind (Bheda); a mean but strong adversary by slightly rewarding him (Danam); an equally strong adversary by valour (Dandah).
श्लोकस्यैतस्य प्रतिपादनार्थं एका रुचिरा कथा अपि पंचतन्त्रस्य चतुर्थे तन्त्रे (लब्धप्रणाशे) कथितास्ति।
महाचतुरको नाम शृगालः अरण्ये मृतमेकं गजं पश्यति। गजस्य कठिनां त्वचां भेत्तुं न शक्नोति। तदा कश्चित् सिंहः तत्रागच्छति। महाचतुरकः तं प्रणम्य वदति “स्वामिन्, दासोऽहं भवताम्। भक्षयतु एनं गजम्” इति। सिंहः प्रसन्नः भूत्वा वदति “नाहमन्येन हतं सत्वं भक्षयामि। कुलीनोऽहं न कदापि कुलमर्यादां न त्यजामि।” ततः स गतः।
सिंहे गते कश्चित् व्याघ्रः समागच्छति। महाचतुरकः तं ससंभ्रमं वदति “किमर्थं भवान् मृत्युमुखे प्रविशति? गजोऽयं सिंहेन हतः। स मां एतस्य रक्षणे नियुज्य स्नानार्थं गतः। तेनाहं समादिष्टः “यदि कश्चित् व्याघ्रः समायाति त्वया सुगुप्तं ममावेदनीयम्। येन वनमिदं मया निर्व्याघ्रं कर्तव्यम्।” तत् श्रुत्वा व्याघ्रः ततः सत्वरं पलायनं करोति।
व्याघ्रे गते कश्चित् चित्रव्याघ्रः (चित्रकः) समायाति। तं दृष्ट्वा महाचतुरकः एवं चिन्तयति “अयं दृढदंष्ट्रः गजस्य कठिनं चर्मं भेत्तुं शक्नोति। एतस्य साहाय्येन तत् साधयितव्यम्।” सः चित्रकं वदति “भवान् ममाऽतिथिः, बुभुक्षित इव लक्ष्यते च। अतः यावत् सिंहः न आयाति तावत् अस्य गजस्य मांसं भक्षयतु। सिंहस्यागमनं दूरतोऽपि त्वामहं सूचयामि” इति। चित्रकेन यदा दंष्ट्रैः गजस्य चर्मं भिन्नं तदा महाचतुरकः उच्चैः विज्ञापयति “एषः सिंहः समायाति। गम्यताम्” इति। तत् श्रुत्वा चित्रकः द्रुतं पलायते।
यावत् महाचतुरकः चित्रकेन कृतेन द्वारेण किंचित् मांसं भक्षयति तावत् अपरः शृगालः समायाति। एषः समशक्ति इति अवगम्य महाचतुरकः तं आक्रम्य मारयति।
एवं चतुर्विधान् प्रतियोगीन् विविधैः उपायैः जित्वा महाचतुरकः चिरकालं हस्तिमांसं भुंङ्क्ते।
कथामेषां आङ्गलभाषायां पठितुं जालपुटमेतत् सन्दर्शयन्तु।
संपूर्णं पंचतन्त्रं आङ्गलभाषायाम्
पंचतन्त्रान्तर्गताः काश्चन कथाः संस्कॄतभाषायाम् आङ्गलानुवादसहितम्