What is scarce in Bhoja’s kingdom? – श्रीभोजराजस्य द्वयमेव सुदुर्लभम्

कदाचिद् भोजराजः बहिः उद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श। तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं च अतिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं च अवलोक्य तुरङ्गं तदग्रे निधाय आह – “विप्र, चर्मपात्रं किमर्थं पाणौ वहसि” इति। स च विप्रो नूनं मुखशोभया मृदूक्त्या एषः भोजराजः इति विचार्य आह – “वदान्यशिरोमणौ भोजे पृथिवीं शासति लोहताम्राभावः समजनि। अतः चर्मपात्रं वहामि” इति। राजा अपृच्छत् – “भोजे शासति लोहताम्राभावे को हेतुः?” इति। तदा विप्रः पठति –

अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम्।
शत्रूणां श्रङ्खलैर्लोहं ताम्रं शासनपत्रकैः॥

ततस्तुष्टो भोजराजः तस्मै प्रत्यक्षरं लक्षं ददौ।

Family life of Siva – स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्

प्रत्येकस्य गृहस्थस्य जीवने क्लेशाः बहवः सन्ति। परमेश्चरस्यापि कुटुम्बे एतादृशाः क्लेशाः सन्तीति कश्चित् कविः अनेन श्लोकेन वर्णयति –

अत्तुं वाञ्छति वाहनं गणपतेराखुं क्षुधार्त्तः फणी
तं च क्रौञ्चरिपोः शिखी च गिरिजासिंहोऽपि नागाननम्।
गौरी जन्हुसुतामसूयति कलानाथं कपालाननो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्॥

ईशस्य अवस्था एतादृशी चेत् सामान्यानां जनानां कुटुम्बजीवनं कियत् क्लेशकरं स्यात् इति वयं ऊहितुं शक्नुमः॥

आखुः – मूषकः, क्रौञ्चरिपुः – कार्तिकेयः/स्कन्दः (पुरा देवेन्द्रस्कन्दयोः विवादवेलायां क्रौञ्चो नाम पर्वतः देवेन्द्रस्य कृते अनृतं उक्तवान्। स्कन्दः क्रुद्धो भूत्वा क्रौञ्चं प्रहृतवान् इति पौराणिकाः वदन्ति। अतः कार्तिकेयः क्रौञ्चरिपुरित्यप्यभिधीयते।), नागाननः – गणेशः, जन्हुसुता – गंगा, कलानाथः – चन्द्रमा, कपालाननः – शंभोः भूतविशेषः

A Humorous Story from Melpattur’s life – कर्णमूलमुपाश्रिता

पुरा केरले अम्बलप्पुषा (चेम्बकश्शेरी) देशे देवनारायणेति राजा समभवत्। स विद्वान्, गुणज्ञः, भक्तश्च आसीत्। प्रतिदिनं प्रातः स्नानं, पूजादिकं च कृत्वा महाभारतपारायणं श्रवणीयमिति तस्य नियमः आसीत्। तदनन्तरमेव सः प्रातराशः करोति स्म। तेन एकः विद्वान् ब्राह्मणः अपि नियोजितः आसीत्। एकस्मिन् दिने स ब्राह्मणः काले न आगतः इत्यतः राज्ञः प्रातराशार्थं विलम्बः अभवत्। महाभारतं पठितुं कमपि विदुषं आनेतुं स भृत्यान् आज्ञापितवान्। किंचिदनन्तरं भृत्यैः एकः ब्राह्मणः समानीतः। राजा तं अपृच्छत् “किं भवान् महाभारतं संयोजयित्वा पठितुं शक्यते वा?” इति। सः ब्राह्मणः “किंचिद् जानामि” इत्यब्रवीत्। तदनन्तरं स ब्राह्मणः महाभारतस्य कर्णपर्वं पठितुं आरभत। तन्मध्ये स श्लोकमेनमपि अपठत्।

भीमसेनगदात्रस्ता दुर्योधनवरूथिनी।
शिखा खल्वाटकस्येव कर्णमूलमुपाश्रिता॥

श्लोकोऽयं न महाभारतान्तर्गतः परन्तु अनेन ब्राह्मणेनैव रचितः इति राजा देवनारायणः तत्क्षणमेव अवगतवान्। स अचिन्तयत् “संयोजयित्वा पठितुं शक्यते वा” इति मया पृष्टं इत्यतः खल्वाटं मां उपहसितुं अनेन एवं कृतम्। एषः न सामान्यः ब्राह्मणः, महापण्डितः मेल्पत्तूर् नारायणभट्टतिरिः एव” इति।

तत्क्षणमेव मेल्पत्तूर नारायणभट्टतिरिः राजानं प्रसादयितुं श्लोकमेनं रचित्वा पठितवान् –

अव्यञ्जनस्तार्क्ष्यकेतुर्यत्पदं घटयिष्यति।
तत्ते भवतु कल्पान्तं देवनारायणप्रभो॥

व्यञ्जनाक्षराभ्यां विना “तार्क्ष्यकेतुः, “आयुः” भवति। अतः श्लोकार्थः “हे देवनारायणप्रभो, ते आयुः कल्पान्तं भवतु” इत्यस्ति। अनेन श्लोकेन प्रसन्नः राजा मेल्पत्तूर वर्यं यथायोग्यं सत्कृतवान्। एषः पण्डित एव श्रीमन्नारायणीयस्य कर्ता अपि।

प्रथमश्लोके “कर्णमूलं” इत्यस्य अर्थद्वयमस्तीति च स्मर्तव्यम्।

Story of a quick-witted scholar – पण्डितस्य प्रत्युत्पन्नमतित्वम्

एकदा कश्चिद् राजा कस्यचन पण्डितस्य वैदुष्ये प्रसन्नो भूत्वा तमेकं महिषीं दातुम् आज्ञापितवान्। राजभृत्याः तमेकं जरठां महिषीं अयच्छन्। पण्डितः तां महिषीं नीत्वा राजसमक्षं गत्वा स्वमुखं महिष्याः कर्णयोः समीपं स्थापितवान्। तद् विलोक्य राज्ञा पृष्टं “हे पण्डित, इयं महिषी भवन्तं किं उक्तवती? इति॥ महिष्याः उत्तररूपेण पण्डितः महीपतिं श्लोकमेनं श्रावितवान् –

भर्ता मे महिषासुरः कृतयुगे देव्या भवान्या हत-
स्तस्मात्तद्दिनतो भवामि विधवा वैधव्यधर्मा ह्यहम्।
दन्ता मे गलिताः कुचा विगलिता भग्नं विषाणद्वयम्
वृद्धायां मयि गर्भसंभवविधिं पृच्छन्न किं लज्जसे॥

पण्डितस्य प्रत्युत्पन्नमतित्वात् प्रसन्नो भूत्वा राजा तस्मै एकां यौवनयुक्तां महिषीं अदापयत्॥

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात् “सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतः।

A Humorous Verse on Miserliness – आनन्दताण्डवपुरे द्रविडस्य गेहे

कस्यचन कृपणस्य विषये कश्चित् कविः एवं कथयति-

आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम्।
विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः॥

आनन्दताण्डवपुरनामके नगरे कस्यचन द्रविडस्य गृहे भोजनवेलायां उपयुज्यमानं घृतपात्रं अरुन्धतीतारावत् अल्पाकारं। घृतस्य परिवेषणार्थं उपयुज्यमाना दर्वी अपि अतिसूक्ष्मा। तथा च घृतस्य परिवेषणं शीघ्रं तथा धारा कृशा च स्तः येन दर्वी विद्युल्लतेव परिनृत्यमाना दृश्यते। अत एव अतिकृशां आज्यधारां योगबलेन सिद्धः कश्चिदेव दृष्टुं शक्यते, न कश्चित् सामान्यः मानवः तद्दृष्टुं शक्यते तस्या अत्यन्तकृशत्वात्।

द्रविडस्यास्य कार्पण्यं कियद् इति अत्र कविना अतिरुचिरं व्यंजितमस्ति।

A Humorous Verse on Son-in-law – जामाता दशमग्रहः

जामातृपीडां असहमानः कश्चित् सरसकविः एवं लिखति,

सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते।
कन्याराशिस्थितो नित्यं जामाता दशमग्रहः॥

भारतीयज्योतिषे नव ग्रहाः एव स्वीकृताः। तथापि यो जामाता वक्रः, क्रूरः, सदा पूजाभिलाषी च भवति सः दशमः ग्रह इव इति कवेः मतम्। एषः न चरति, सर्वदा कन्यायाः गृहे एव तिष्ठति इति एकमात्रविशेषः अस्ति।

सुभाषितरत्नभण्डागाराद् उद्धृतोऽयं श्लोकः।

A humorous verse on fake scholars – गुरोर्गिरः पञ्चदिनान्यधीत्य

हास्यरसस्य उदाहरणरूपेण एषः श्लोकः साहित्यदर्पणे उपलभ्यते। आत्मानं पण्डितं मन्यमानस्य कस्यचन मूर्खस्य विषये कविना श्लोको‍ऽयं निर्मितः।

गुरोर्गिरः पञ्चदिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च|
अमी समाघ्राय च तर्कवादान् समागताः कुक्कुटमिश्रपादाः॥

See! the great Kukkuta Misra is coming! He has studied Mimamsa (the teaching of his guru Pabhakara) in five days and the whole of Vedanta in three days; He has also got a fragrance of the science of the Logic from a distance.

एतत् पठित्वा कुक्कुटमिश्रपादानां वैदुष्यं कियत् गहनं आसीत् इति वयं ऊहितुं शक्नुमः।

Why Goddess of wealth does not stay with Brahmins – लक्ष्मीः किमर्थं ब्राह्मणानां गृहेषु न निवसति?

एकदा वैकुण्ठनाथो विष्णुः लक्ष्मीदेवीं अपृच्छत् “किमर्थं भवती ब्राह्मणानां गृहेषु न निवसति?” इति।
तस्याः प्रत्युत्तरं एकस्मिन् श्लोके केनापि सुकविना लिखितम्। अस्मिन् श्लोके लक्ष्मीः वदति किमर्थं सा (सम्प्दाः) ब्राह्मणगृहेषु न वर्तते इति।

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद्
आबाल्याद् विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे।
गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं
तस्मात् खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि॥

श्लोकस्यास्य संक्षेपेण विवरणं अत्र दीयते।

पीतः क्रुद्धेन तातः – पुरा अगस्त्यः क्रुद्धो भूत्वा मत्पितरं समुद्रं पीतवान्। अगस्त्यः ब्राह्मणः आसीत्।
चरणतलहतो वल्लभो येन रोषाद् – भृगुमुनिः एकदा रोषाद् पादतलेन विष्णुं प्रहृतवान्। भृगुरपि ब्राह्मणः आसीत्।
आबाल्याद् विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे – विप्राः बाल्यतः मम वैरिणीं सरस्वतीमेव तेषां मुखेषु धार्यन्ते। अर्थात् ते सर्वदा वाग्देव्या एव उपासनां कुर्वन्ति।
गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं – ब्राह्मणाः शिवपूजार्थं प्रतिदिनं मम गृहं (कमलं) छेदयन्ति।

अन्तिमपादं तु सुव्यक्तं इत्यतः टीप्पणी नावश्यका।

कपटधार्मिकः बकः – Pseudo-righteous Heron

एषा कथा वाल्मीकेः रामायणे अस्ति वा न वा इति नाहं जानामि। तथापि एषा कथा नितरां रुचिरास्ति इत्यतः एतस्याः कथनं अत्र युक्तमिति मन्ये।

एकदा श्रीरामलक्षणौ पम्पानद्यां स्नानार्थं गतवन्तौ। तत्र तौ शनैः शानैः चलन्तं एकं जरठं बकं अपश्यताम्। एनं दृष्ट्वा श्रीरामः लक्ष्मणं एवं अब्रवीत् –

“पश्य लक्ष्मण पम्पायां बकोयं परमधार्मिकः।
शनैः शनैः पदं धत्ते जीवानां वधशंकया॥”

एतद् निशम्य तत्रस्थः कश्चित् मण्डूकः श्रीरामं एवं न्यवेदयत्।

सहवासी विजानाति सहवासी विचेष्टितम्।
बकोऽयं वर्ण्यते राय तेनाहं निष्कुलीकृतः॥

A Humorous Verse – पत्नीद्वययुतो नरः – Man with two wives

बिलाद्बहिर्बिलस्यान्तः स्थितमार्जारसर्पयोः।
मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः॥

A man having two wives appears like a rat standing in between a cat outside its hole and a snake inside the hole.