Adi Sankaracharya Sanskrit Movie – आदिशंकराचार्यचरितम् – संस्कृतचलच्चित्रम्

adi-shankaracharya-movie
यदि भवन्तः भारतस्य इतिहासे द्वदशशतवर्षाणि यावत् सञ्चरन् कस्यचन महात्मनः चरितं दृष्टुमिच्छन्तः चेत् जी. वी. अय्यर् वर्येण निर्मितं आदि शंकराचार्याख्यं चलच्चित्रं पश्यन्तु।

अद्वैतवेदान्तस्थापकस्य आदि शंकराचार्यस्य (७८८ – ८२०) चरितमधिकृत्य जी. वी. अय्यर् वर्येण १९८३ तमे वर्षे निर्मितमेतद् संस्कॄतचलच्चित्रम्। अस्मिन् चलच्चित्रे शंकराचार्यस्य बाल्यादारभ्य, आचार्यपादानां तिरोधान (निर्वाण) पर्यन्तं तेषां चरितं पूर्णतया दर्शितमस्ति। अभिनेतृणां सर्वेषां वेषाभूषादयः, रंगसज्जीकरणं, इत्यादयः वस्तुतः पौराणिककालानुरूपं इत्यतः प्रेक्षकाः अपि एवं अनुभवेयुः यत् तेपि आचार्यपादैः सहैव वर्तन्ते इति। चलच्चित्रेस्मिन् सम्भाषण् पूर्णतया संस्कृतभाषायामेवास्ति। तथापि आंगलभाषायां उपशीर्षकाणि सन्ति इत्यतः कथां सुगमतया अवगन्तुं शम्नुमः। चलच्चित्रस्येतस्य दैर्ध्यम् पादोन घण्टाद्वयमस्ति।

चलच्चित्रस्येतस्य संभाषणस्य संक्षेपं आङ्गलभाषायां पठितुं जालपुटमेतत् सन्दर्शयन्तु।

एतत् चलच्चित्रं गूगळ् विडिओ मध्ये पश्यन्तु

संस्कृतं सुगमतया अधीतुं भंडार्कर् वर्यस्य ई-पुस्तके

cover first book of sanskritसंस्कृतं सुगमतया अधीतुं भंडार्कर् वर्यस्य ई-पुस्तके – First & Second Books of Sanskrit by R. G. Bhandarkar

आर्. जी. भंडार्करस्य एते द्वे पुस्तके १८८३ मध्ये प्रथमतया प्रकाशिते। ततः परं इतः पर्यन्तं एते पुस्तके संस्कृतविध्यार्थीनां कृते अनुपेक्षणीये आस्ताम्। भंडार्करेण एतयोः पुस्तकयोः चत्वारि विषयानि अधिकृत्य पाठाः रचिताः।

१. संस्कृतभाषायाः व्याकरणम्
२. संस्कृतवाक्यानां आङ्गलभाषान्तरीकरणम्
३. आङ्गलभाषावाक्यानां संस्कृतभाषान्तरीकरणम् एवम्
४. शब्दसञ्चयस्य विकासः (Vocabulary building)

व्याकरणविषये भंडार्कर् वर्यः सिद्धान्तकौमुदीमेव अनुवर्तितवान् इत्यतः ये छात्राः संस्कृतव्याकरणे अवगाहं प्राप्तुमिच्छन्ति तेषां कृते अपि एते पुस्तके उपयुक्ते भवेताम्।

प्रथमं पुस्तकं अवनेतुं अन्वयः

द्वितीयं पुस्तकं अवनेतुं अन्वयः

तिरुक्कुरळ् संस्कृतभाषायाम् – Tirukkural in Sanskrit

tiruvalluvar
तिरुवळ्ळुवर्येण क्रिस्तोः पूर्वं प्रथमे शताब्दे रचिते तितुक्कुरळ् तमिळ् वेद इति नाम्ना सुविदितम्। इदानीं संस्कृतभाषायां तिरुक्कुरळ् एतस्मिन् जालपुटे उपलभ्यते।

स्कन्धत्रयात्मके अस्मिन् ग्रन्थे १३३ अध्यायेषु १३३० श्लोकाः सन्ति। अरम् इत्याख्ये प्रथमस्कन्धे स्वधर्मस्य पालनं कथं कर्तव्यम् इति वर्णितमस्ति। पोरुळ् इत्याख्ये द्वितीये स्कन्धे मानवजीवनस्य किमर्थं इत्युक्तम्। इन्बम् इत्याख्ये तृतिये स्कन्धे गार्हस्थ्यजीवने यत्सुखं अनुभवितुं शक्यते इत्यपि वर्णितमस्ति। एवं त्रिभिः स्कन्धैः भारतीयसंस्कृतेः आधारशिलाभूतानां “धर्मार्थकामानां” विषये तिरुवल्लुवरेण सम्यक् उपन्यस्तमस्ति।

अस्य संस्कृतानुवादकः श्री. एस्. एन्. श्रीरामदेशिकवर्येण तिरुप्पावै, चिलप्पतिकारम्, कम्बरामायणम् इत्यादीनां बहूनां तमिल् ग्रन्थानामपि संस्कृतानुवादं कृतमस्ति।

संस्कृतभाषायां तिरुक्कुरळ् पठितुं जालपुटमेतत्संदर्शयन्तु|
http://nvkashraf.co.cc/kursan/sancont.htm

यूट्यूब् मध्ये संस्कृतनाटकम् – “वेणीसंहारः” Sanskrit Play in Youtube

Draupadi-humiliated
यूट्यूब् मध्ये एकं अतिसुन्दरं संस्कृतनाटकमस्ति, “वेणीसंहारः” इति।

वेणीसंहारः इतयेतत् संस्कृतनाटकं महाकविना भट्टनारायणेन क्रिस्तीये सप्तमशताब्दे रचितं।
महाभारतस्य द्रौपदी वस्त्रापहरणप्रसङ्गं दुश्शासनदुर्योधनवधप्रसङ्गं च अधिकृत्य भट्टनारायणेन एतत् नाटकं विरचितमस्ति। यदा दुश्शासनः द्रौपदीं राजसदसि बलादानीय तस्याः वेणीं अमुञ्चयत् , तां सर्वेषां पुरतः तस्याः मानभङ्गमपि कृतवान् तदा सा प्रतिज्ञातवती यत् अस्य क्रूरस्य रुधिरे निमज्य तदनन्तरमेव अहं वेणीं संहरामि इति। अभिमानधनः भीमः तस्याः प्रतिज्ञां साधयितुं दुश्शासनं रणे निहत्य तस्य रुधिरं पत्न्यै अयच्छत्। अतः एतस्य नाटकस्य “वेणीसंहारः” (tying the braid) इति शीर्षकं सार्थकमेव ।

एतस्य नाटकस्य तृतीयोऽङ्कः एव यूट्यूब् मध्ये अस्ति। तथापि एतद् दर्शनीयमेव भवद्भिः । अस्मिन् नाटके अभिनेतारः सर्वे बालिकाबालकाः छात्राः कस्यचन विद्यालयस्य। तेषां उच्चारणशुद्धिः, संगीतज्ञानं, वेषभूषादयश्च अत्युत्तमानि सन्ति ।

एतस्य अन्वयः http://www.youtube.com/user/tsnbhushan#p/u

श्री च.मु.कृष्णशास्त्री वर्यस्य संस्कृतभाषाणानि

chamu_k_shastry_tv
भवन्तः संस्कृतभाषायां भाषणं श्रोतुमिच्छन्तः वा?

श्री च.मु.कृष्णशास्त्री वर्यस्य (संस्कृतभारत्याः स्थापकसदस्यः) बहूनि संस्कृतभाषाणानि mp3 मध्ये अत्र उपलभ्यन्ते।
http://surasa.net/music/samskrta-vani/sbharati.php#alakananda

संस्कृतविषये अन्ये अपि बहवः सामग्रयः अस्मिन् जालपुटे सन्ति। एतत् भवतां कौतुकवत् भविष्यति इति गणयामि।