Why should one do charity? – आपदर्थे धनं रक्षेत्…

कदाचिद् भोजराजं निरन्तरं सुकविभ्यः धनं दीयमानं आलोक्य मुख्यामात्यो बुद्धिसागरो वक्तुमशक्तो राज्ञः शयनागारस्य भित्तौ अलिखत् –
“आपदर्थे धनं रक्षेत्” इति। राजा शयनादुत्थितो अमात्येन लिखितं श्लोकं वीक्ष्य स्वयं द्वितीयचरणं अलिखत् – “श्रीमतामापदः कुतः” इति। अपरेद्युरमात्यो द्वितीयं चरणं लिखितं दृष्ट्वा स्वयं तृतीयचरणं अलिखत् – “सा चेदपगता लक्ष्मीः” इति। परेद्युः राज्ञा चतुर्थं चरणं लिखितम् – “सञ्चितार्थो विनश्यति”॥

सम्पूर्णश्लोकः एवमस्ति –
आपदर्थे धनं रक्षेत् श्रीमतामापदः कुतः।
सा चेदपगता लक्ष्मीः सञ्चितार्थो विनश्यति॥

ततो मुख्यामात्यो राज्ञः पादयोः पतित्वा अप्रार्थयत् – “क्षन्तव्योऽयं मेऽपराधः” इति।

अर्थस्य सञ्चयापेक्षया तस्य वितरणमेव श्रेष्ठमिति भोजराजस्य मतम्। उक्तञ्च मनीषिभिः –
“दानं भोगं नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाम॥ इति॥

Bhojaraja Escapes Death – मान्धाता स महीपतिः

पुरा धाराराज्ये सिन्धुलो नाम राजा शासनं करोति स्म। वृद्धस्य तस्य पुत्रः भोजः केवलं पञ्चवर्षीयः आसीत्। अतः सिन्धुलस्य निधनानन्तरं तस्य भ्राता मुञ्जः राजा अभवत्। किंचित्कालानन्तरं कश्चित् ज्यौतिषिकः मुञ्जमवदत् “भोजः वंगदेशं दक्षिणापथं च पञ्चपञ्चाशत् वर्षाणि शासनं करिष्यति” इति। तदाकर्ण्य मुञ्जः एवं अचिन्तयत् “यदि भोजः राजा भविष्यति चेत् तदाहं जीवन्नपि मृत इव भविष्यति। एतन्निरोद्धुं मया यत्नः कर्तव्यः” इति। तदनन्तरं सः वंगदेशाधीशं वत्सराजं आहूय तमाह – “त्वया भोजः वनं नीत्वा हन्तव्यः। तस्य शिरः अत्रानेतव्यं च”। भोजं हन्तुं अनिच्छन्नपि मुञ्जस्य आज्ञां शिरसा वहन् वत्सराजः भोजं राजप्रसादतः वनं नीतः।

तत्र भोजः छुरिकया स्वजङ्घां छित्वा रक्तमादाय तृणेन एकस्मिन् वटपत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह – “वत्स, पत्रमेनं राज्ञे दातव्यं। इदानीं राजाज्ञां विधेहि” इति। परन्तु तत्रोपस्थितेन स्वानुजेन उपदिष्टः वत्सः पश्चात्तापपीडितः सन् भोजं ’क्षमस्व’ इत्युक्त्वा घनान्धकारे तं स्वगृहं नीत्वा भूगर्भस्थे एकस्मिन् प्रकोष्ठे निक्षिप्य रक्षितवान्। तदनन्तरं वत्सराजः भोजस्य कृतकमेकं मस्तकं कारयित्वा मुञ्जराजसमीपं गत्वा तद् मुण्डं, भोजस्य पत्रं च अदात्। तस्मिन् पत्रे भोजकुमारेण श्लोकोऽयं लिखितः आसीत् –

मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति॥

राजा च तत्पठित्वा मूर्च्छितो भूत्वा भुमौ पपात। स अपि “भ्रात्रा ममोत्संगे स्थापितः भोजकुमारः पितृव्येण मया हतः। अधमोऽहं न जीवितुमर्हामि” इति चिन्तयित्वा पश्चात्तपविवशो भूत्वा प्राणान् त्यक्तुं निश्चितवान्। दैववशात् तदा कश्चन योगीन्द्रः तत्रागत्य मुञ्जं समाश्चसितवान्। सः योगीन्द्रः स्वतपोबलेन मृतं भोजं प्रत्युज्जीवितवान्। मुञ्जराजः सद्य एव कुमारं भोजं राजसिंहासने निवेशयित्वा, तं राज्यं दत्वा पत्न्या सह तपोवनं अगच्छत्। तदनन्तरं भोजराजस्तु स्वराज्यं चिरकालं बुभुजे।

Family life of Siva – स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्

प्रत्येकस्य गृहस्थस्य जीवने क्लेशाः बहवः सन्ति। परमेश्चरस्यापि कुटुम्बे एतादृशाः क्लेशाः सन्तीति कश्चित् कविः अनेन श्लोकेन वर्णयति –

अत्तुं वाञ्छति वाहनं गणपतेराखुं क्षुधार्त्तः फणी
तं च क्रौञ्चरिपोः शिखी च गिरिजासिंहोऽपि नागाननम्।
गौरी जन्हुसुतामसूयति कलानाथं कपालाननो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्॥

ईशस्य अवस्था एतादृशी चेत् सामान्यानां जनानां कुटुम्बजीवनं कियत् क्लेशकरं स्यात् इति वयं ऊहितुं शक्नुमः॥

आखुः – मूषकः, क्रौञ्चरिपुः – कार्तिकेयः/स्कन्दः (पुरा देवेन्द्रस्कन्दयोः विवादवेलायां क्रौञ्चो नाम पर्वतः देवेन्द्रस्य कृते अनृतं उक्तवान्। स्कन्दः क्रुद्धो भूत्वा क्रौञ्चं प्रहृतवान् इति पौराणिकाः वदन्ति। अतः कार्तिकेयः क्रौञ्चरिपुरित्यप्यभिधीयते।), नागाननः – गणेशः, जन्हुसुता – गंगा, कलानाथः – चन्द्रमा, कपालाननः – शंभोः भूतविशेषः

Tragic Death of Mahakavi Magha – हिरण्यमेवार्जय निष्फलाः कलाः

शिशुपालवधस्य रचयिता महाकविः माघः संस्कृतसाहित्ये सुविश्रुतः। माघकवेः काव्यसौष्टवं पुरस्कृत्य कश्चित् कविना लिखितः सर्वविदितोऽयं श्लोकः – “उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः” इति॥

माघकविः अतीवदयालुः दानशीलश्च आसीत्। उदारहृदयेण तेन स्वस्य धनं सर्वं अन्येभ्यः दत्तम्। अतः तस्य अन्तिमदिनेषु स अत्यन्तं निर्धनः अभवत्। क्षुत्पिपासाभ्यां नितरां पीडितः सः अन्ते कस्यचन वृक्षस्य अधः शयानः स्वप्राणान् त्यक्तवान्। तदा तस्य हस्ते पत्रमेकं दृष्टं यस्मिन् श्लोकोऽयं आसीत् –

न भुज्यते व्याकरणं बुभुक्षितैः पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥

मानवजीवने अर्थः अनुपेक्षणीय एव, अतः अर्थस्य तिरस्कारो न कर्तव्य, इति प्रसङ्गोऽयं अस्मान् स्मारयति।

A Parable – “What is Bondage?” – को बद्धः?

एकदा एकस्मिन् गुरुकुले गुरुः शिष्यं बोधयति स्म, “मानवः मायया कथं बद्धो भवति” इति। शारीरिकं बन्धनं तु बाह्यचक्षुषा वयं दृष्टुं शक्नुमः। परन्तु मानसिकं बन्धनं तु दॄष्टिगोचरं न भवति। विवेकदृष्ट्या एव तद् ज्ञायते। तत्वमेतत् प्रतिपादयितुं गुरुः शिष्येण सह गुरुकुलात् बहिः आगतवान्। तत्र ताभ्यां एकः ग्रामीणः दृष्टः। स रज्जूबद्धामेकां धेनूं आनयति स्म। तद् विलोक्य गुरुः धेनोः समीपं गत्वा झटित्या तां बन्धनात् व्यमोचयत्। सद्य एव सा धेनुः धावितुं आरभत। तद्दृष्ट्वा स ग्रामीणोऽपि तस्याः पृष्ठतः धावितवान्।

तदा गुरुः शिष्यं उक्तवान् “पश्यतु एतत्, धेनोः बन्धनं तु केवलं शारीरिकमासीत्। सा रज्ज्वा एव बद्धा आसीत्। तस्या मनसि किमपि बन्धनं नासीत्। ग्रामीणस्य तु बन्धनं शारीरिकं नासीत्, परन्तु मानसिकम्। अत एव सः धावन्तीं धेनूं अनुसृतवान्। एवमेव सर्वे जनाः पुत्र-कलत्र-गृह-संपद्भिः सह रागवशात् बद्धा सन्ति। यावद् मानवः एतस्मात् बन्धनात् मुक्तो न भविष्यति तावत् तस्य दुःखस्यापि अन्तो न भविष्यति।

अस्मिन् सन्दर्भे एव कविनान्येन उक्तं –
आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला। यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत्॥

Wisdom from Mahakavi Bharavi – अविवेकः परमापदां पदम्

सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥

किरातार्जुनीयस्य द्वितीयसर्गस्य त्रिंशत्तमश्लोकोऽयम्।

एकदा महाकविः भारविः “किरातार्जुनीयं” रचयन्नासीत्। तावता प्रागुक्तश्लोकस्य पूर्वार्धपर्यन्तमेव रचितमासीत्। तदा कवेः पत्नी तं गृहकार्यार्थं स्वल्पं धनं याचितवती। प्रायः कवयः निर्धनाः सन्ति। भारवेः सकाशमपि धनं नासीत्। अतः सः पूर्वोक्तश्लोकस्य पूर्वार्धं पत्न्यै दत्वा तामवदत् “एनं कुत्रापि पणीकृत्य आवश्यकं धनं प्राप्नोतु” इति। सा श्लोकार्द्धमेनं कस्यचन वणिजः पत्न्यै दत्वा धनं स्वीकृतवती।

सा वणिक्पत्नी श्लोकार्द्धमेनं स्वगृहे शयनागारे भित्तौ स्थापितवती। तस्या पतिः यः व्यापारार्थं पञ्चदशवर्षेभ्यः पूर्वं विदेशं गतः स तद्रात्रौ एव प्रत्यागतवान्। तस्य विदेशगमनसमये पत्नी गर्भिणी आसीत्, तदनन्तरं सा पुत्रमेकं प्रासूत, स इदानीं चतुर्दशवयस्कः अभवत् इति च स वणिक् न जानाति स्म। स पत्नीं दृष्टुं तस्याः प्रकोष्टं प्रविष्टवान्। तत्र पत्न्याः समीपे शयानं युवकं दॄष्ट्वा स्वपत्नीं दुश्चरित्रां मत्वा सः क्रोधाविष्टो भूत्वा खड्गेन तावुभावपि हन्तुमुद्यतः। तस्मिन् क्षणे एव तेन भित्तौ स्थापितं श्लोकार्द्धं दृष्टं – “सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्” इति। तत्पठित्वा स निश्चितवान् तौ उत्थाप्य विचार्य तदनन्तरं हनिष्ये इति। सः पत्नीम् उच्चैः आहूतवान्। सा उत्थाय अकस्मात् गृहमागतं स्वपतिं विलोक्य सन्तुष्टा भूत्वा स्वपुत्रम् उक्तवती – “हे सुत, तव पिताऽसौ, एनं प्रणम!” इति। बालः स्वपितरं सादरं नमस्कृतवान्। चतुर्द्दशवर्षीयः एषः बालकः स्वपुत्रः इति पत्न्या विज्ञापितः स वणिक् विस्मितो भूत्वा तां अवदव् “भित्तौ स्थापितं एनं श्लोकार्द्धं यदि मया न पठितं स्यात् तर्हि अहं त्वां पुत्रं च अहनिष्यम्”।

श्लोकार्द्धोऽयं भारविना लिखितः इति पत्न्या विज्ञापितः स वणिक् कविं आहूय श्लोकस्य उत्तरार्धार्थं प्रार्थितवान्। कविः झटिति एव श्लोकस्य उत्तरार्द्धं तं श्रावितवान्। तत् श्रुत्वा वणिक् अत्यन्तं प्रसन्नो भूत्वा कविं भूरि धनं दत्वा सम्मानितवान् यतो हि श्लोकोऽयं स्वपत्न्याः पुत्रस्य च प्राणान् अरक्षत्।

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात्सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतम्।

A verse on Chewing Betal Leaves – सुधाधिक्यं स्पृहेच्छत्रुः

ganapati_muni

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा केचन कलालयछात्राः गणपतिमुनेः वैदुष्यं, कवित्वं च परीक्ष्य आस्वादितुं समागताः। संभाषणमध्ये ते तं अपृच्छन् “ताम्बूलचर्वणविषये भवतः अभिप्रायः पद्येन कथ्यतां” इति। तदा मुनिः तद्विषये स्वीयमभिप्रायं एतेन सरलेन श्लोकेन प्रकटीकृतवान्।

सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेद् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥ इति॥

(A person’s enemies would want excess lime in his tambulam; his physician would want excess areca nut in it; his wife would want excess Betel leaf in it while his mother would want all the three in right proportion.)

ताम्बूले सुधायाः आधिक्येन मुखे जिह्वायां च व्रणं भवति। तस्मात् शत्रूणां तदभिलषणीयम्। क्रमुकफलस्य अधिकसेवनेन उदररोगः भवति। तद् वैद्यस्य लाभाय एव। ताम्बूले पत्रस्य अधिकोपयोगेन कामवृद्धिर्भवति इत्यतः तद् जायायाः इष्टं भवति। ताम्बूले फल-पत्र-सुधानां त्रयाणां यथाविधिः सेवनं आरोग्यप्रदं पाचनशक्तिं वर्द्धयति इति कारणात्। अतः माता स्वपुत्रः ताम्बूलं एवमेव सेवयेदिति इच्छति।

एतत्प्रसङ्गः कापालिशास्त्रिवर्येण विरचितात् वासिष्ठवैभवात् समाहृतोऽस्ति।