Story of a quick-witted scholar – पण्डितस्य प्रत्युत्पन्नमतित्वम्

एकदा कश्चिद् राजा कस्यचन पण्डितस्य वैदुष्ये प्रसन्नो भूत्वा तमेकं महिषीं दातुम् आज्ञापितवान्। राजभृत्याः तमेकं जरठां महिषीं अयच्छन्। पण्डितः तां महिषीं नीत्वा राजसमक्षं गत्वा स्वमुखं महिष्याः कर्णयोः समीपं स्थापितवान्। तद् विलोक्य राज्ञा पृष्टं “हे पण्डित, इयं महिषी भवन्तं किं उक्तवती? इति॥ महिष्याः उत्तररूपेण पण्डितः महीपतिं श्लोकमेनं श्रावितवान् –

भर्ता मे महिषासुरः कृतयुगे देव्या भवान्या हत-
स्तस्मात्तद्दिनतो भवामि विधवा वैधव्यधर्मा ह्यहम्।
दन्ता मे गलिताः कुचा विगलिता भग्नं विषाणद्वयम्
वृद्धायां मयि गर्भसंभवविधिं पृच्छन्न किं लज्जसे॥

पण्डितस्य प्रत्युत्पन्नमतित्वात् प्रसन्नो भूत्वा राजा तस्मै एकां यौवनयुक्तां महिषीं अदापयत्॥

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात् “सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतः।

Tragic Death of Mahakavi Magha – हिरण्यमेवार्जय निष्फलाः कलाः

शिशुपालवधस्य रचयिता महाकविः माघः संस्कृतसाहित्ये सुविश्रुतः। माघकवेः काव्यसौष्टवं पुरस्कृत्य कश्चित् कविना लिखितः सर्वविदितोऽयं श्लोकः – “उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः” इति॥

माघकविः अतीवदयालुः दानशीलश्च आसीत्। उदारहृदयेण तेन स्वस्य धनं सर्वं अन्येभ्यः दत्तम्। अतः तस्य अन्तिमदिनेषु स अत्यन्तं निर्धनः अभवत्। क्षुत्पिपासाभ्यां नितरां पीडितः सः अन्ते कस्यचन वृक्षस्य अधः शयानः स्वप्राणान् त्यक्तवान्। तदा तस्य हस्ते पत्रमेकं दृष्टं यस्मिन् श्लोकोऽयं आसीत् –

न भुज्यते व्याकरणं बुभुक्षितैः पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥

मानवजीवने अर्थः अनुपेक्षणीय एव, अतः अर्थस्य तिरस्कारो न कर्तव्य, इति प्रसङ्गोऽयं अस्मान् स्मारयति।

A Parable – “What is Bondage?” – को बद्धः?

एकदा एकस्मिन् गुरुकुले गुरुः शिष्यं बोधयति स्म, “मानवः मायया कथं बद्धो भवति” इति। शारीरिकं बन्धनं तु बाह्यचक्षुषा वयं दृष्टुं शक्नुमः। परन्तु मानसिकं बन्धनं तु दॄष्टिगोचरं न भवति। विवेकदृष्ट्या एव तद् ज्ञायते। तत्वमेतत् प्रतिपादयितुं गुरुः शिष्येण सह गुरुकुलात् बहिः आगतवान्। तत्र ताभ्यां एकः ग्रामीणः दृष्टः। स रज्जूबद्धामेकां धेनूं आनयति स्म। तद् विलोक्य गुरुः धेनोः समीपं गत्वा झटित्या तां बन्धनात् व्यमोचयत्। सद्य एव सा धेनुः धावितुं आरभत। तद्दृष्ट्वा स ग्रामीणोऽपि तस्याः पृष्ठतः धावितवान्।

तदा गुरुः शिष्यं उक्तवान् “पश्यतु एतत्, धेनोः बन्धनं तु केवलं शारीरिकमासीत्। सा रज्ज्वा एव बद्धा आसीत्। तस्या मनसि किमपि बन्धनं नासीत्। ग्रामीणस्य तु बन्धनं शारीरिकं नासीत्, परन्तु मानसिकम्। अत एव सः धावन्तीं धेनूं अनुसृतवान्। एवमेव सर्वे जनाः पुत्र-कलत्र-गृह-संपद्भिः सह रागवशात् बद्धा सन्ति। यावद् मानवः एतस्मात् बन्धनात् मुक्तो न भविष्यति तावत् तस्य दुःखस्यापि अन्तो न भविष्यति।

अस्मिन् सन्दर्भे एव कविनान्येन उक्तं –
आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला। यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत्॥

Wisdom from Mahakavi Bharavi – अविवेकः परमापदां पदम्

सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥

किरातार्जुनीयस्य द्वितीयसर्गस्य त्रिंशत्तमश्लोकोऽयम्।

एकदा महाकविः भारविः “किरातार्जुनीयं” रचयन्नासीत्। तावता प्रागुक्तश्लोकस्य पूर्वार्धपर्यन्तमेव रचितमासीत्। तदा कवेः पत्नी तं गृहकार्यार्थं स्वल्पं धनं याचितवती। प्रायः कवयः निर्धनाः सन्ति। भारवेः सकाशमपि धनं नासीत्। अतः सः पूर्वोक्तश्लोकस्य पूर्वार्धं पत्न्यै दत्वा तामवदत् “एनं कुत्रापि पणीकृत्य आवश्यकं धनं प्राप्नोतु” इति। सा श्लोकार्द्धमेनं कस्यचन वणिजः पत्न्यै दत्वा धनं स्वीकृतवती।

सा वणिक्पत्नी श्लोकार्द्धमेनं स्वगृहे शयनागारे भित्तौ स्थापितवती। तस्या पतिः यः व्यापारार्थं पञ्चदशवर्षेभ्यः पूर्वं विदेशं गतः स तद्रात्रौ एव प्रत्यागतवान्। तस्य विदेशगमनसमये पत्नी गर्भिणी आसीत्, तदनन्तरं सा पुत्रमेकं प्रासूत, स इदानीं चतुर्दशवयस्कः अभवत् इति च स वणिक् न जानाति स्म। स पत्नीं दृष्टुं तस्याः प्रकोष्टं प्रविष्टवान्। तत्र पत्न्याः समीपे शयानं युवकं दॄष्ट्वा स्वपत्नीं दुश्चरित्रां मत्वा सः क्रोधाविष्टो भूत्वा खड्गेन तावुभावपि हन्तुमुद्यतः। तस्मिन् क्षणे एव तेन भित्तौ स्थापितं श्लोकार्द्धं दृष्टं – “सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्” इति। तत्पठित्वा स निश्चितवान् तौ उत्थाप्य विचार्य तदनन्तरं हनिष्ये इति। सः पत्नीम् उच्चैः आहूतवान्। सा उत्थाय अकस्मात् गृहमागतं स्वपतिं विलोक्य सन्तुष्टा भूत्वा स्वपुत्रम् उक्तवती – “हे सुत, तव पिताऽसौ, एनं प्रणम!” इति। बालः स्वपितरं सादरं नमस्कृतवान्। चतुर्द्दशवर्षीयः एषः बालकः स्वपुत्रः इति पत्न्या विज्ञापितः स वणिक् विस्मितो भूत्वा तां अवदव् “भित्तौ स्थापितं एनं श्लोकार्द्धं यदि मया न पठितं स्यात् तर्हि अहं त्वां पुत्रं च अहनिष्यम्”।

श्लोकार्द्धोऽयं भारविना लिखितः इति पत्न्या विज्ञापितः स वणिक् कविं आहूय श्लोकस्य उत्तरार्धार्थं प्रार्थितवान्। कविः झटिति एव श्लोकस्य उत्तरार्द्धं तं श्रावितवान्। तत् श्रुत्वा वणिक् अत्यन्तं प्रसन्नो भूत्वा कविं भूरि धनं दत्वा सम्मानितवान् यतो हि श्लोकोऽयं स्वपत्न्याः पुत्रस्य च प्राणान् अरक्षत्।

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात्सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतम्।

A Poet’s Dilemma – नमः प्रामाण्यवादाय

पुरा दक्षिणात्यः कश्चित् कविः न्यायशास्त्रमध्येतुं इच्छन् वंगदेशे नवद्वीपं गतवान्। तद्दिनेषुव् अधिकशः नैय्यायिकाः प्रायेण वंगदेशे निवसन्ति स्म। सः तत्र कस्यचन विश्रुतस्य नैय्यायिकस्य गुरुकुले “प्रामाण्यवादं” अध्येतुं प्रारभत। सरसहृदयाय तस्मै न्यायशास्त्राध्ययनं अत्यन्तं दुष्करं संवृत्तम्। न्यायमध्येतुं तेन कृतानि सर्वाण्यपि प्रयत्नानि निष्फलाः अभवन्। काव्यादीनि निर्माय तेन यद् धनमार्जितं तत् सर्वं एतस्मिन् नवीने उद्यमे व्ययितम्, तथा च तस्य कवित्वमपि नष्टं गतम्। यदि कवित्वं न नष्टं स्यात् तर्हि स भूयः धनोपार्जनार्थं समर्थः स्यात्। कवित्वहीनः सः अन्ते एवं व्यलपयत् “नमः प्रामाण्यवादाय मत्कवित्वापहारिणे” इति।

A Parable On “Conquering Anger” – मन्निन्दया यदि जनः परितोषमेति…

पुरा कस्मिंश्चित् देशे एकः क्रोधालुः राजा आसीत्। सः प्रायः क्रोधाकुलो भूत्वा अकर्तव्यानि कृत्वा अनन्तरं दुःखं च अनुभवति स्म। अतः सः स्वस्य क्रोधं निग्रहीतुमिच्छन् गुरोः आश्रमं अगच्छत्। गुरुः तं एवं उपदिष्टवान् “अद्य आरभ्य एकं संवत्सरं यः कोऽपि भवन्तं प्रकोपयति तेन सह क्रोधः न प्रदर्शनीयः, परन्तु तस्मै शतरूप्यकाणि दातव्यानि। एवं चेत् एकसंवत्सरानन्तरं भवतः मनसि कोपः कदापि न भवति” इति। गुरुं प्रणम्य, तस्य उपदेशं शिरसा वहन् राजा ततः प्रत्यागतः।

तदनन्तरं यदि केऽपि राजानं प्रकोपयन्ति अथवा निन्दयन्ति चेत् राजा तेभ्यः धनं दत्वा तेषां सम्मानं करोति स्म। एवं संवत्सरमेकं व्यतीतम्। ततः परं एकदा कश्चित् ब्राह्मणः राज्ञः अवहेलनं कृतवान्, तथापि राज्ञः मनसि क्रोधः मनागपि नोत्पन्नः। परन्तु सः उच्चैः हसन् तं ब्राह्मणं एवं अवदत् “संवत्सरमेकं अहं धनं दत्वा अप्रियवाक्यानि शृण्वन्नासम्। इदानीं भवान् मां विना मूल्यं निन्दितवान्। एतत्तु मम लाभाय एव” इति। एतदनन्तरं स राजा न कदापि क्रोधाधीनो भूत्वा अकरणीयं किमपि कृतवान्। अस्य राज्ञः दृष्टिः परिवर्तिता इत्यतः इतः पूर्वं ये निमित्तानि एनं प्रकोपितवन्तः ते इदानीं तदर्थं अशक्ता अभवन्। मनसः परिवर्तनमेव क्रोधं निग्रहीतुं सरलः उपायः।

अत एव केनचित् कविना एवमुक्तम् –

मन्निन्दया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।
लोके जना हि जनतापरितोषणाय दुःखार्जितान्यपि धनानि परित्यजन्ति॥

A Humorous Verse on Miserliness – आनन्दताण्डवपुरे द्रविडस्य गेहे

कस्यचन कृपणस्य विषये कश्चित् कविः एवं कथयति-

आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम्।
विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः॥

आनन्दताण्डवपुरनामके नगरे कस्यचन द्रविडस्य गृहे भोजनवेलायां उपयुज्यमानं घृतपात्रं अरुन्धतीतारावत् अल्पाकारं। घृतस्य परिवेषणार्थं उपयुज्यमाना दर्वी अपि अतिसूक्ष्मा। तथा च घृतस्य परिवेषणं शीघ्रं तथा धारा कृशा च स्तः येन दर्वी विद्युल्लतेव परिनृत्यमाना दृश्यते। अत एव अतिकृशां आज्यधारां योगबलेन सिद्धः कश्चिदेव दृष्टुं शक्यते, न कश्चित् सामान्यः मानवः तद्दृष्टुं शक्यते तस्या अत्यन्तकृशत्वात्।

द्रविडस्यास्य कार्पण्यं कियद् इति अत्र कविना अतिरुचिरं व्यंजितमस्ति।