अत्यन्ताधुनिकाः पूर्वकालीनवारस्त्रियः – “Ultra-modern” courtesans of ancient India

अधुनातनयुगे, विशेषतः महानगरेषु, स्त्रियस्तेषां ओष्ठरागः (lipstick) यदृच्छया सम्मार्जितो न भवेदिति चिन्तयित्वा महता अवधानेन वर्तन्ते इति वयं जानीमः। परन्तु पुरा अस्माकं देशे अपि एतादृशाः काश्चन स्त्रियः आसन्नित्यस्य एषः श्लोकः प्रमाणम्।

उपभुक्तखदिरवीटकजनिताधररागभङ्गभयात्।
पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति॥

Fearing that her lips may lose the red colour created by chewing of betal leaves, the courtesan, even when her father dies, doesn’t cry “ha pita, pita” but cries ” ha tata tata”.

पकारः ओष्ठजः (labial consonant) अस्ति इत्यतः यदि तया “पिता पिता” इत्युच्चरितं चेत् ताम्बूलचर्वणेन जनितः ओष्ठरागः सम्मार्जितो भवेदिति भयाद् एषा वारांगना “हा तात तात” इत्येव रोदिति। तकारः दन्त्यः (dental consonant) इत्यतः तस्योच्चारणे ओष्ठरागस्य भङ्गभय एव नास्तीति कारणम्।