Kalidasa & Bhavabhuti – पुरो निस्सरणे रणः

एकदा पार्वती महेश्वरं अपृच्छत् “कवित्वे को श्रेष्ठतरः – कालिदासः उत भवभूतिः?। महेश्वरः प्राह – “कवित्वे उभावपि तुल्यौ एव। परन्तु कालिदासः निश्चयज्ञानमतिः, भवभूतेस्तु तादृशः निश्चयज्ञानं नास्तीति भेदः। भवती न विश्वसिति चेत् तयोः परीक्षां कृत्वा निश्चिनोतु”।

गिरिजा तु कवयोः परीक्षार्थं वृद्धब्रह्मण्याः, कार्तिकेयः मृतशिशोश्च रूपे धृतवन्तौ। ततः पार्वती धारापुरीं गत्वा भोजराजस्य प्रासादस्य द्वारे मृतं शिशुं भुमौ निधाय तत्र कवीन् प्रतीक्षमाणा तत्र स्थितवती। राजसभायां समाप्तायां राजप्रासादतः बहिः आगच्छन्तं प्रत्येकं कविं संबोधयन्ती सा वृद्धब्राह्मणी उच्चैः अवदत् “शिशुर्मे शापवशाद् मृत्युंगतः। यदि कश्चित् ’पुरो निःसरणे रणः’ इत्येनां समस्यां पूरयति चेत् मम शिशुः शापत् मुक्तो भविष्यति। अतः भवद्भिः एषा समस्या कृपया पूरणीया” इति। तेषां एकैकोऽपि समस्यां अपूरयत्। तदा सा ब्राह्मणी तान् पृष्टवती “मम शिशुः किमर्थं न प्रत्युज्जीवितः?”। ते निरुत्तराः सन्तः ततो याताः। तदा भवभूतिः तत्र समागतः। ब्राह्मण्या प्रार्थितः सः समस्याः पूरणं एवमकरोत् –

यामीति प्रियपृष्टायाः प्रियायाः कण्ठसक्तयोः।
अश्रुजीवितयोरासीत् पुरो निस्सरणे रणः॥

(On being asked by the lover for permission to depart, a battle occurred between tears and life, located in the throat of the beloved, for leaving first.)

सा ब्राह्मणी भवभूतिं पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “नाहं जानामि। अहमेनां समस्यां इतोऽपि वरं न पूरयितुं शक्नोमि। कदाचित् कालिदासः कर्तुं शक्यते”। अचिरात् कालिदासः अपि तत्र समागत्य तया ब्राह्मण्या प्रार्थितः सन् एतां समस्यां अपूरयत्। कालिदासस्य भवभूतेश्च पूरणयोः मध्ये ईषदपि अंतरः नासीत्।

ब्राह्मणी कालिदासमपि पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “भवत्याः शिशुः न कदापि मृतः। अतः एव स न प्रत्युज्जीवति। समस्यामेनां इतोऽपि वरं न कोऽपि पूरयितुं शक्यते” इत्युक्त्वा कालिदासः ततो निर्गतः। एतत् सर्वं दृष्ट्वा कवित्वे कालिदासस्य भवभूतेश्च विषये महेश्वरेण यदुक्तं तत्सत्यमिति पार्वति अवगतवती।