राजा भोजः कवीनां विदुषां च कृते कल्पतरु इवासीत्। भोजराज्ञा एवं आज्ञप्तं चासीत् –
विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे।
कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम॥ इति॥
काले अतिक्रान्ते धारानगर्यां निवसन्तः सर्वे केवलं विदुषा कवयश्च आसन्। एकदा द्रविडदेशस्थस्य लक्ष्मीधरकवेः वैदुष्यात् प्रसन्नो भूत्वा भोजराजः मुख्यामात्यं प्राह – “अस्मै धारानगर्यां गृहं दीयतां” इति। अमात्यः निखिलमपि नगरं विलोक्य कमपि मूर्खं नापश्यत् यं निष्कास्य विदुषे गृहं दीयते। अन्ते स कस्यचित् कुविन्दस्य गृहं विलोक्य तमाह – “कुविन्द, गृहान्निःसर। तव गृहं विदुषे दातव्यम्” इति। तदा कुविन्दः अपि कुपितो भूत्वा राजभवनमागत्य राजानं प्रणम्य “देव, अमात्यः मां मूर्खं मत्वा नगराद् निःसारयितुमिच्छति। अहं मूर्खः पण्डितो वेति त्वं तु पश्य” इत्युक्त्वा श्लोकमेनं अवदत् –
काव्यं करोमि नहि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपूज्यपाद हे भोजराज कवयामि वयामि यामि॥
कुविन्देन प्रयुक्तं त्वंकारं ग्राम्यं मत्वा भोजराज एवमाह – “ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, किन्तु कविता विचार्यैव कर्तव्या” इति। तदा कुविन्दः प्रत्यवदत् –
बाल्ये सुतानां सुरतेऽङ्गनानां स्तुतौ कवीनां समरे भटानाम्।
त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम्॥
एतन्निशम्य भोजराजः “साधु भो कुविन्द, मा भैषी” इत्युक्त्वा तस्य अक्षरलक्षं ददौ।
___________________________
कुविन्दः – पटकारः, तंतुवायः/Weaver