Why should one do charity? – आपदर्थे धनं रक्षेत्…

कदाचिद् भोजराजं निरन्तरं सुकविभ्यः धनं दीयमानं आलोक्य मुख्यामात्यो बुद्धिसागरो वक्तुमशक्तो राज्ञः शयनागारस्य भित्तौ अलिखत् –
“आपदर्थे धनं रक्षेत्” इति। राजा शयनादुत्थितो अमात्येन लिखितं श्लोकं वीक्ष्य स्वयं द्वितीयचरणं अलिखत् – “श्रीमतामापदः कुतः” इति। अपरेद्युरमात्यो द्वितीयं चरणं लिखितं दृष्ट्वा स्वयं तृतीयचरणं अलिखत् – “सा चेदपगता लक्ष्मीः” इति। परेद्युः राज्ञा चतुर्थं चरणं लिखितम् – “सञ्चितार्थो विनश्यति”॥

सम्पूर्णश्लोकः एवमस्ति –
आपदर्थे धनं रक्षेत् श्रीमतामापदः कुतः।
सा चेदपगता लक्ष्मीः सञ्चितार्थो विनश्यति॥

ततो मुख्यामात्यो राज्ञः पादयोः पतित्वा अप्रार्थयत् – “क्षन्तव्योऽयं मेऽपराधः” इति।

अर्थस्य सञ्चयापेक्षया तस्य वितरणमेव श्रेष्ठमिति भोजराजस्य मतम्। उक्तञ्च मनीषिभिः –
“दानं भोगं नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाम॥ इति॥

Story of a quick-witted scholar – पण्डितस्य प्रत्युत्पन्नमतित्वम्

एकदा कश्चिद् राजा कस्यचन पण्डितस्य वैदुष्ये प्रसन्नो भूत्वा तमेकं महिषीं दातुम् आज्ञापितवान्। राजभृत्याः तमेकं जरठां महिषीं अयच्छन्। पण्डितः तां महिषीं नीत्वा राजसमक्षं गत्वा स्वमुखं महिष्याः कर्णयोः समीपं स्थापितवान्। तद् विलोक्य राज्ञा पृष्टं “हे पण्डित, इयं महिषी भवन्तं किं उक्तवती? इति॥ महिष्याः उत्तररूपेण पण्डितः महीपतिं श्लोकमेनं श्रावितवान् –

भर्ता मे महिषासुरः कृतयुगे देव्या भवान्या हत-
स्तस्मात्तद्दिनतो भवामि विधवा वैधव्यधर्मा ह्यहम्।
दन्ता मे गलिताः कुचा विगलिता भग्नं विषाणद्वयम्
वृद्धायां मयि गर्भसंभवविधिं पृच्छन्न किं लज्जसे॥

पण्डितस्य प्रत्युत्पन्नमतित्वात् प्रसन्नो भूत्वा राजा तस्मै एकां यौवनयुक्तां महिषीं अदापयत्॥

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात् “सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतः।