A Samasya – A bride longs for her father-in-law वधू श्वशुरमिच्छति

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा गणपतिमुनिः वंगदेशे नवद्वीपे एमस्मिन् पण्डितपरिषदि कवित्वपरीक्षायां भागं गृहीतवान्। परीक्षकः तस्मै “स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति” इति एकां समस्यां दत्वा, “किं त्वनवद्यचरिता” इत्यपि सूचितवान्। गणपति मुनिः तां समस्यां एवं पूरितवान् –


हिडिम्बा भीमदयिता निदाघे घर्मपीडिता।
स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति॥

Hidimba, the beloved of Bhima, oppressed by heaat in summer, longs for her father-in-law (Vayu – the deity of Air) after removing the cloths covering her breasts.

हिडिम्बायाः श्वशुरः वायु इति प्रसिद्धमस्ति।

परीक्षकमतं तु द्रौपदी भीमदयिता इत्यासीत्। किंतु गणपतिमुनेः मतं तु एवमासीत् – हिडिम्बा भीमस्यैव पत्निः किंतु द्रौपदिस्तु पाण्डवानां सर्वेषामपि पत्निः इत्यतः “हिडिम्बा भीमदयिता” इति प्रयोग एव समीचिनः। अन्यच्च द्रौपदिस्तु राजकुलजाता। औष्ण्यनिवारणार्थं उत्तरीयपरित्यागः तस्यै न युज्यते, अरण्यनिवासिन्याः हिडिम्बायास्तु एतादृशः व्यवहारः समुचितः।

A verse on Chewing Betal Leaves – सुधाधिक्यं स्पृहेच्छत्रुः

ganapati_muni

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा केचन कलालयछात्राः गणपतिमुनेः वैदुष्यं, कवित्वं च परीक्ष्य आस्वादितुं समागताः। संभाषणमध्ये ते तं अपृच्छन् “ताम्बूलचर्वणविषये भवतः अभिप्रायः पद्येन कथ्यतां” इति। तदा मुनिः तद्विषये स्वीयमभिप्रायं एतेन सरलेन श्लोकेन प्रकटीकृतवान्।

सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेद् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥ इति॥

(A person’s enemies would want excess lime in his tambulam; his physician would want excess areca nut in it; his wife would want excess Betel leaf in it while his mother would want all the three in right proportion.)

ताम्बूले सुधायाः आधिक्येन मुखे जिह्वायां च व्रणं भवति। तस्मात् शत्रूणां तदभिलषणीयम्। क्रमुकफलस्य अधिकसेवनेन उदररोगः भवति। तद् वैद्यस्य लाभाय एव। ताम्बूले पत्रस्य अधिकोपयोगेन कामवृद्धिर्भवति इत्यतः तद् जायायाः इष्टं भवति। ताम्बूले फल-पत्र-सुधानां त्रयाणां यथाविधिः सेवनं आरोग्यप्रदं पाचनशक्तिं वर्द्धयति इति कारणात्। अतः माता स्वपुत्रः ताम्बूलं एवमेव सेवयेदिति इच्छति।

एतत्प्रसङ्गः कापालिशास्त्रिवर्येण विरचितात् वासिष्ठवैभवात् समाहृतोऽस्ति।

पिपीलिका चुंबति चन्द्रमण्डलम्॥

समस्यापूरणमेतद् अतिरुचिरमस्ति – पिपीलिका चुंबति चन्द्रमण्डलम् इति ।
गणपतिमुनिः एतदेवं पूरितवान् ।

सतीवियोगेन विषण्णचेतसः प्रभो शयानस्य हिमालये गिरौ ।
शिवस्य चूडाकलितं सुधाशया पिपीलिका चुंबति चन्द्रमण्डलम्॥

Seeing the lord Siva, lying in despondency on the Himalayan mountain after the separation from Sati, an ant licks (kisses) the crescent moon on Siva’s forehead mistaking it (crescent moon) for nectar.

अस्यैव अपरमेकं पूरणमप्यस्ति । एतत्केन रचितमिति न जानामि। एतल्लब्धं गुरुकुलं जालपुटात् ।

असज्जनः सज्जनसंगिसंगात् करोति दुस्साध्यमपीह साध्यम्।
पुष्पाश्रयाच्छंभुशिरोधिरूढा पिपीलिका चुंबति चन्द्रबिंबम्॥

Even a worthless person achieve the unachievable by virtue of association with those who associate with the great. An ant reaches the forehead of lord Siva by virtue of its association with the flower used for worship of the lord and thus is able to kiss the crescent moon that adorns Siva’s forehead.

एवमपि एकं पूरणमेतत्समस्यायाः इदानीमेव महासुभाषितसंग्रहाल्लब्धम्।

अनंगबाणाकुलितस्य शंभोः शिरो भवानीचरणेऽतिनम्रम् ।
विलोक्य काचिच्चरणे चरन्ती पिपीलिका चुम्बति चन्द्रबिम्बम् ॥

महासुभाषितसंग्रहं पठितुं GRETIL संस्थायाः जालपुटं सन्दर्शयन्तु ।

जीवितं – ऐहिकं पारत्रिकं च

अस्मिन् श्लोके धर्ममर्मज्ञः कश्चित् कविः विभिन्नजनानां ऐहिक-पारलौकिक जीवितं कथं भवति इति वर्णयति।

राजपुत्र चिरं जीव मा जीव मुनिपुत्रक ।
जीव वा मर वा साधो व्याध मा जीव मा मर ॥

rAjaputra ciraM jIva mA jIva muniputraka |
jIva vA mara vA sAdho vyAdha mA jIva mA mara ||

राजपुत्रः यावज्जीवति तावत् सुखमनुभवति । किन्तु, मरणानन्तरं तस्य दुःखं निश्चितं यतः प्रजापापफलं तेन भोक्तव्यमेव । अतः तस्य कृते जीवितं मरणात् वरं इति कविः वदति ।

मुनिपुत्रः यावज्जीवति तावत् क्लेशमनुभवति यतः तेन वृतशतानां अनुष्ठानं प्रतिदिनं करणीयमस्ति । मरणात्परं पुण्यकर्मणः तस्य सुखं निश्चितं । अतः तस्य कृते मरणं जीवितात् वरमिति कविः चिन्तयति ।

सज्जनस्य, गृहस्थस्य, लोकहितप्रियस्य इह सुखं जीवनं भवति । परलोके अपि सः सदाचारफलं सुखमनुभवति इत्यतः तस्य कृते मरणजीविते उभे अपि वरणीयौ ।

व्याधस्य इह परत्र च सुखं नास्ति इत्यतः कविर्वदति “व्याध मा जीव मा मर” इति ।

शुक्लांबरधरं विष्णुं – महर्षेः रमणस्य विषये

Maharshi Ramana
तद्दिनेषु (1899-1916) श्रीरमणः अरुणाचले विरूपाक्षगुहायां वसति स्म । एकदा गणपति मुनिः तस्य दर्शनार्थं समागतवान् । गणपति मुनिः संस्कृतपाण्डित्ये अप्रतिमः, वेदवेदांगपारंगतोऽपि आसीत् । तस्य बहवः शिष्याः अपि आसन् । तथापि सः एकं प्रामाणिकं अध्यात्मिकगुरुं अन्विष्यमान आसीत् । सः श्रीरमणाय प्रणाममकरोत् । श्री रमणः कृपार्द्रदृष्ट्या तं वीक्षितवान् ।

तदा एकः भक्तः गणपति मुनिः महान् विद्वान् इति ज्ञात्वा तं पृष्टवान्, “शुक्लांबरधरं विष्णुं.. इत्यस्य श्लोकस्य व्याख्यानं करोतु” इति. “एतस्य श्लोकस्य बहवः व्याख्यानाः सन्ति” इत्युक्त्वा मुनिः एनं श्लोकं विष्णोः, ब्रह्मणः, गणेशस्य च सम्बन्धे व्याख्यातवान् । तदनन्तरं “श्री रमणस्य विषये अपि एनं श्लोकं व्याख्यातुं शक्यते” इत्युक्त्वा सः एवं अवर्णयत्।

शुक्लाम्बरधरम् – यः शुक्लवर्णं वस्त्रं धरति ।
विष्णुम् – यः आत्मरूपेण सर्वत्र व्याप्तः अस्ति ।
शशिवर्णम् – यस्य वर्णं धवलमस्ति ।
चतुर्भुजम् – यः नाहं “मनोबुध्यहंकारचित्तानि” परन्तु आत्मा एव इति ज्ञात्वा तानि चत्वारि भुक्तवानिति चतुर्भुक् ।
प्रसन्नवदनम् – यस्य मुखं प्रसन्नमस्ति ।
ध्यायेत् सर्वविघ्नोपशान्तये – एतादृशं श्रीरमणं सर्वविघ्नानां उपशान्तयर्थं ध्यायेत् ।

एतद् श्रुत्वा सर्वे श्रोतारः विस्मिता अभवन्, श्रीरमणः गणपति मुनिं सस्मितं वीक्षितवान् च ॥

जगतीधरजामाता – A verse with multiple meanings

ganapati_muni
काव्यकण्ठ गणपतिमुनिना रचितः एषः श्लोकः शंकर-पार्वती-गणेश-स्कन्दपरतया व्याख्यातुं शक्यते ।

जगतीधरजामाता भवतां भव्याय भूयसे भवतु ।
कञ्चिदकिञ्चनमपि यद्वीक्षा विदधाति शक्रसमम् ॥

jagatIdharajAmAtA BavatAM BavyAya BUyase Bavatu |
ka~jcidaki~jcanamapi yadvIkShA vidadhAti Sakrasamam ||

May Jagatidharajamata be for your utmost welfare – whose glance makes even a person who has nothing, equal to Indra.

This sloka composed by Kavyakanta Ganapati Muni has made use of a pun on the word Jagatidharajamata so that the sloka can be applied to Siva, Parvati, Ganesha or Skanda. Jagatidhara means mountain (here it stands for Himalaya).

1. जगतीधरस्य जामाता परमेश्वरः
2. जगतीधरजा माता पार्वती
3. जगतीधरजा यस्य माता सः (गणेशः स्कन्दः वा)