A parable – Glory of wisdom – यत्सारभूतं तदुपासितव्यम्

एकदा कश्चित् राजा तस्य जन्मदिने कारागारं गत्वा तत्रस्थान् सर्वान् बन्दिनः एवं उक्तवान् “अद्य मम जन्मदिवसः। अहं अतिप्रसन्नोऽस्मि। अतः भवत्सु प्रत्येकः मत्तः वरमेकं वृणीतुं शक्यते।” इति॥

कश्चित् बन्दी अवदत्, “हे राजन्, कृपया मह्यं कम्बलमेकं ददातु” इति।
अन्यः कश्चित् पृष्टवान् , “हे राजन्, कृपया मह्यं नवीनं उपानहं ददातु” इति।
अपरः कश्चित् बन्दी प्रार्थितवान्, “हे राजन्, कारागारे मम कक्षे वातायन एव नास्ति, कृपया तन्निर्मातुं व्यवस्थां करोतु” इति। अन्या अपि एवमेव क्षुद्रपदार्थाः एव प्रार्थितवन्तः। तेषां सर्वेषां अभिलाषाः राज्ञा सद्य एव साधिताः।

अन्ते, कश्चन बन्दी राजानं प्रणम्य एवं अवदत्, “हे राजन्, मम एक एव अभिलाषः अस्ति, मां अस्मात् कारागृहात् मोचयतु” इति। एतत् श्रुत्वा राजा भृशं प्रसन्नो भूत्वा तं बन्दिनं कारागारात् व्यमोचयत्। यावत् बन्दिनः कारागारे बद्धाः सन्ति तावत् तेषां क्लेशाः निश्चयेन भवेयुः। तेषां सर्वानामपि क्लेशानां निवारणाय एक एव उपायः अस्ति – कारागारात् मोचनम्। तथापि केवलं एक एव तदर्थं प्रार्थितवान्।

एवमेव अस्मिन् लोके जनानां येऽपि क्लेशाः सन्ति तेषां सर्वेषां निवारणाय एक एव उपाय अस्ति – अस्मात् संसारात् मोचनम्। एतत् अजानन्तः सर्वे धन-मान-अधिकाराणां सम्पादनार्थं प्रयत्नं कुर्वन्ति। मनुष्याणां कश्चित् एकः विवेकी पुरुष एव मोक्षाय प्रयत्नं करोति। अत एव भगवता उक्तं “मनुष्याणां सहस्रेषु कश्चित् यतति सिद्धये…” इति।