Wisdom from Mahakavi Bharavi – अविवेकः परमापदां पदम्

सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥

किरातार्जुनीयस्य द्वितीयसर्गस्य त्रिंशत्तमश्लोकोऽयम्।

एकदा महाकविः भारविः “किरातार्जुनीयं” रचयन्नासीत्। तावता प्रागुक्तश्लोकस्य पूर्वार्धपर्यन्तमेव रचितमासीत्। तदा कवेः पत्नी तं गृहकार्यार्थं स्वल्पं धनं याचितवती। प्रायः कवयः निर्धनाः सन्ति। भारवेः सकाशमपि धनं नासीत्। अतः सः पूर्वोक्तश्लोकस्य पूर्वार्धं पत्न्यै दत्वा तामवदत् “एनं कुत्रापि पणीकृत्य आवश्यकं धनं प्राप्नोतु” इति। सा श्लोकार्द्धमेनं कस्यचन वणिजः पत्न्यै दत्वा धनं स्वीकृतवती।

सा वणिक्पत्नी श्लोकार्द्धमेनं स्वगृहे शयनागारे भित्तौ स्थापितवती। तस्या पतिः यः व्यापारार्थं पञ्चदशवर्षेभ्यः पूर्वं विदेशं गतः स तद्रात्रौ एव प्रत्यागतवान्। तस्य विदेशगमनसमये पत्नी गर्भिणी आसीत्, तदनन्तरं सा पुत्रमेकं प्रासूत, स इदानीं चतुर्दशवयस्कः अभवत् इति च स वणिक् न जानाति स्म। स पत्नीं दृष्टुं तस्याः प्रकोष्टं प्रविष्टवान्। तत्र पत्न्याः समीपे शयानं युवकं दॄष्ट्वा स्वपत्नीं दुश्चरित्रां मत्वा सः क्रोधाविष्टो भूत्वा खड्गेन तावुभावपि हन्तुमुद्यतः। तस्मिन् क्षणे एव तेन भित्तौ स्थापितं श्लोकार्द्धं दृष्टं – “सहसा विदधीत न क्रियां अविवेकः परमापदां पदम्” इति। तत्पठित्वा स निश्चितवान् तौ उत्थाप्य विचार्य तदनन्तरं हनिष्ये इति। सः पत्नीम् उच्चैः आहूतवान्। सा उत्थाय अकस्मात् गृहमागतं स्वपतिं विलोक्य सन्तुष्टा भूत्वा स्वपुत्रम् उक्तवती – “हे सुत, तव पिताऽसौ, एनं प्रणम!” इति। बालः स्वपितरं सादरं नमस्कृतवान्। चतुर्द्दशवर्षीयः एषः बालकः स्वपुत्रः इति पत्न्या विज्ञापितः स वणिक् विस्मितो भूत्वा तां अवदव् “भित्तौ स्थापितं एनं श्लोकार्द्धं यदि मया न पठितं स्यात् तर्हि अहं त्वां पुत्रं च अहनिष्यम्”।

श्लोकार्द्धोऽयं भारविना लिखितः इति पत्न्या विज्ञापितः स वणिक् कविं आहूय श्लोकस्य उत्तरार्धार्थं प्रार्थितवान्। कविः झटिति एव श्लोकस्य उत्तरार्द्धं तं श्रावितवान्। तत् श्रुत्वा वणिक् अत्यन्तं प्रसन्नो भूत्वा कविं भूरि धनं दत्वा सम्मानितवान् यतो हि श्लोकोऽयं स्वपत्न्याः पुत्रस्य च प्राणान् अरक्षत्।

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात्सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतम्।