हेब्रू भाषायाः नवोत्थाननायकस्य बेन् यहूदस्य (१८५८-१९२२) जीवचरितमेतत्। एतत्पुस्तकं आङ्गलभाषायमस्ति चेदपि अस्मत्कृते संस्कृतपठनार्थं, प्रचारणार्थं च महती प्रेरणास्पदं स्यात्।
बेन् यहूदः हेब्रू भाषायाः पुनरुज्जीवनार्थं, इस्रेल् देशस्य स्थापनार्थं च स्वजीवितं समर्पयत् ।स्वस्य व्याधिं, प्रथमपत्न्याः कतिचन पुत्राणं च मृत्युं, आर्थिकक्लेशं च अविगणय्य सः स्वदौत्यनिर्वहणे अविरतं निमग्न अवर्तत। बहवः बन्धुमित्रादयः तं अवज्ञात्वा अनिन्दयन्। तथापि, सः विदेशेभ्यः यहूदान् इस्रेल् आनेतुं एकं आन्दोलनं प्रारभ्य तान् हेब्रू भाषायाः द्वारा समयोजयत् च। हेब्रू भाषायाः पुनरुज्जीवनार्थं बेन् यहूदः स्वयं तस्यां भाषायां बहूनां नूतनपदानां आविष्कारं कृतवान् इत्येव एतस्य वास्तविककथायाः एकं वैचित्र्यं ।यतः हेब्रू सुदीर्घकालं मृतवत् आसीत्, ततः नवीनतम वस्तूनां कृते तस्यां समानपदानि न आसन्।
बेन् यहूदः तत्कालीन हेब्रू भाषायं महदनुसन्धानं कृत्वा, कानिचन पदानि किंचित् परिवर्तयित्वा च नूतन पदानां आविष्कारं कृतवान्।सः हेब्रू भाषायाः एका नूतना निघन्टु च अरचयत्।
बेन् यहूदस्य एषा आख्यायिका अत्यर्थं प्रेरणास्पदास्ति।एवमेव संस्कृत भाषायाः उज्जीवनं किं वयं कर्तुं शक्नुमः?
टिप्पणी : बेन् यहूदस्य चरितं इदानीं भवन्तः संस्कृतभाषायां पठितुं शक्यन्ते। संस्कृतभारत्या एतत् भाषान्तरीकृत्य “भुवमानीता भगवद्भाषा” इति नाम्ना प्रकाशितमस्ति।