A Parable On “Conquering Anger” – मन्निन्दया यदि जनः परितोषमेति…

पुरा कस्मिंश्चित् देशे एकः क्रोधालुः राजा आसीत्। सः प्रायः क्रोधाकुलो भूत्वा अकर्तव्यानि कृत्वा अनन्तरं दुःखं च अनुभवति स्म। अतः सः स्वस्य क्रोधं निग्रहीतुमिच्छन् गुरोः आश्रमं अगच्छत्। गुरुः तं एवं उपदिष्टवान् “अद्य आरभ्य एकं संवत्सरं यः कोऽपि भवन्तं प्रकोपयति तेन सह क्रोधः न प्रदर्शनीयः, परन्तु तस्मै शतरूप्यकाणि दातव्यानि। एवं चेत् एकसंवत्सरानन्तरं भवतः मनसि कोपः कदापि न भवति” इति। गुरुं प्रणम्य, तस्य उपदेशं शिरसा वहन् राजा ततः प्रत्यागतः।

तदनन्तरं यदि केऽपि राजानं प्रकोपयन्ति अथवा निन्दयन्ति चेत् राजा तेभ्यः धनं दत्वा तेषां सम्मानं करोति स्म। एवं संवत्सरमेकं व्यतीतम्। ततः परं एकदा कश्चित् ब्राह्मणः राज्ञः अवहेलनं कृतवान्, तथापि राज्ञः मनसि क्रोधः मनागपि नोत्पन्नः। परन्तु सः उच्चैः हसन् तं ब्राह्मणं एवं अवदत् “संवत्सरमेकं अहं धनं दत्वा अप्रियवाक्यानि शृण्वन्नासम्। इदानीं भवान् मां विना मूल्यं निन्दितवान्। एतत्तु मम लाभाय एव” इति। एतदनन्तरं स राजा न कदापि क्रोधाधीनो भूत्वा अकरणीयं किमपि कृतवान्। अस्य राज्ञः दृष्टिः परिवर्तिता इत्यतः इतः पूर्वं ये निमित्तानि एनं प्रकोपितवन्तः ते इदानीं तदर्थं अशक्ता अभवन्। मनसः परिवर्तनमेव क्रोधं निग्रहीतुं सरलः उपायः।

अत एव केनचित् कविना एवमुक्तम् –

मन्निन्दया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।
लोके जना हि जनतापरितोषणाय दुःखार्जितान्यपि धनानि परित्यजन्ति॥