Kalidasa & Bhavabhuti – पुरो निस्सरणे रणः

एकदा पार्वती महेश्वरं अपृच्छत् “कवित्वे को श्रेष्ठतरः – कालिदासः उत भवभूतिः?। महेश्वरः प्राह – “कवित्वे उभावपि तुल्यौ एव। परन्तु कालिदासः निश्चयज्ञानमतिः, भवभूतेस्तु तादृशः निश्चयज्ञानं नास्तीति भेदः। भवती न विश्वसिति चेत् तयोः परीक्षां कृत्वा निश्चिनोतु”।

गिरिजा तु कवयोः परीक्षार्थं वृद्धब्रह्मण्याः, कार्तिकेयः मृतशिशोश्च रूपे धृतवन्तौ। ततः पार्वती धारापुरीं गत्वा भोजराजस्य प्रासादस्य द्वारे मृतं शिशुं भुमौ निधाय तत्र कवीन् प्रतीक्षमाणा तत्र स्थितवती। राजसभायां समाप्तायां राजप्रासादतः बहिः आगच्छन्तं प्रत्येकं कविं संबोधयन्ती सा वृद्धब्राह्मणी उच्चैः अवदत् “शिशुर्मे शापवशाद् मृत्युंगतः। यदि कश्चित् ’पुरो निःसरणे रणः’ इत्येनां समस्यां पूरयति चेत् मम शिशुः शापत् मुक्तो भविष्यति। अतः भवद्भिः एषा समस्या कृपया पूरणीया” इति। तेषां एकैकोऽपि समस्यां अपूरयत्। तदा सा ब्राह्मणी तान् पृष्टवती “मम शिशुः किमर्थं न प्रत्युज्जीवितः?”। ते निरुत्तराः सन्तः ततो याताः। तदा भवभूतिः तत्र समागतः। ब्राह्मण्या प्रार्थितः सः समस्याः पूरणं एवमकरोत् –

यामीति प्रियपृष्टायाः प्रियायाः कण्ठसक्तयोः।
अश्रुजीवितयोरासीत् पुरो निस्सरणे रणः॥

(On being asked by the lover for permission to depart, a battle occurred between tears and life, located in the throat of the beloved, for leaving first.)

सा ब्राह्मणी भवभूतिं पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “नाहं जानामि। अहमेनां समस्यां इतोऽपि वरं न पूरयितुं शक्नोमि। कदाचित् कालिदासः कर्तुं शक्यते”। अचिरात् कालिदासः अपि तत्र समागत्य तया ब्राह्मण्या प्रार्थितः सन् एतां समस्यां अपूरयत्। कालिदासस्य भवभूतेश्च पूरणयोः मध्ये ईषदपि अंतरः नासीत्।

ब्राह्मणी कालिदासमपि पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “भवत्याः शिशुः न कदापि मृतः। अतः एव स न प्रत्युज्जीवति। समस्यामेनां इतोऽपि वरं न कोऽपि पूरयितुं शक्यते” इत्युक्त्वा कालिदासः ततो निर्गतः। एतत् सर्वं दृष्ट्वा कवित्वे कालिदासस्य भवभूतेश्च विषये महेश्वरेण यदुक्तं तत्सत्यमिति पार्वति अवगतवती।

Kalidasa surprises Bhoja Raja – तव बाधति बाधते

कालिदासः एकदा रात्रौ छद्मवेषं धृत्वा नगरे अटन् आसीत्। परेद्युः प्रातः काले भोजराजस्यापि कुत्रापि गन्तव्यमासीत्। राज्ञः शिबिकां वोढुं वाहकाः अपर्याप्ता इत्यतः राजभटाः नगरवीथिषु अटन्तं छद्मवेषधारिणं कालिदासं शिबिकां वोढुं नियुक्तवन्तः। एतादृशे कर्मसु कालिदासस्य अभ्यासः नासीत् इत्यतः सः अचिरात् एव श्रान्तः अभवत्।

श्रान्तं कालिदासं वीक्ष्य कारुणिकः भोजराजः अपृच्छत् “अयं आन्दोलिकादण्डस्तव बाधति वा न वा” इति। कालिदासः प्रत्यवदत् “नायमान्दोलिकादण्डः तव बाधति बाधते” इति। तत् श्रुत्वा, एषः शिबिकावाहकः न सामान्यः कोऽपि परन्तु मम प्रेष्ठः कालिदास एव इति ज्ञात्वा भोजराजः कालिदासं शिबिकायां आसनं प्रदत्तवान्।

भोजराजेन प्रयुक्तः “बाधति” शब्दः सदोषः आसीत् इति सुव्यक्तम्।

Glory of a Chaste Woman – हुताशनश्चन्दनपङ्कशीतलः – A Samasya Pooranam by Kalidasa

एकदा भोजराजः छद्मवेषं धृत्वा धारानगर्यां अटन्नासीत्। तत्र एकस्मिन् गृहे सः एकं विलक्षणं दृश्यं व्यलोकयत्। तस्मिन् गृहे कश्चित् पुरुषः पत्न्याः अङ्के शिरः संस्थाप्य शयान आसीत्। तदा अकस्मात् तयोः अल्पवयस्कः बालकः महानसे अग्नौ अपतत्। भयानकं तं दृश्यमवलोक्य अपि, भर्तुः निद्रायाः भञ्जनं कर्तुं न इच्छन्त्या तया स्वपतिः न उत्थापितः। तथापि तस्याः पातिव्रत्यस्य बलेन शीतलीभूत इव पावकः तं बालकं मनागपि न बाधितवान्। संवृत्तमेनं संपश्य विस्मितो भूत्वा भोजराजः स्वमन्दिरं प्रत्यगच्छत्। परस्मिन् दिने सः “हुताशनश्चन्दनपङ्कशीतल:” इत्यस्याः समस्यायाः पूरणं कर्तुं स्वसदस्येभ्यः अपृच्छत्। एषा समस्या अपि कालिदासेन एव एवं पूरिता।

सुतं पतन्तं सुसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता।
तदाऽभवत् तत्पतिभक्तिगौरवात् हुताशनश्चन्दनपङ्कशीतलः॥

पूर्ववृत्तान्तं मांसचक्षुषा अपश्यता अपि कालिदासेन ज्ञानचक्षुषा एव संवृत्तमखिलं ज्ञातमिति अवगम्य भोजराजः महता आदरेण तं प्रभूतं स्वर्णं, कौशाम्बरं च दत्वा सम्मानितवान्।

दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम् – A Samasya Pooranam by Kalidasa

एकस्मिन् दिने भोजराजः छद्मवेषं धृत्वा नगरे अटन्नासीत्। तेन विलक्षणमेकं दृश्यं दृष्टम्। एकस्मिन् गृहे काश्चन युवतिः काकरवं श्रुत्वा भृशं भीता अभवत्। तद् दृष्ट्वा तस्याः पति अचिन्तयत् “एषा वस्तुतः पतिव्रता एव। काकरवमपि असह्यमाना एषा परपुरुषाणाम् स्पर्शाद् मूर्च्छां गमिष्यत्येव” इति। तस्याः सौशील्येन स नितरां सन्तुष्टः अपि अभवत्।

परन्तु तस्याः आचरणे जातशंकः भोजराजः तां निरीक्षितवान्। रात्रौ यदा तस्याः पतिः सुषुप्तोऽभवत् तदा सा गृहात् बहिः आगत्वा नर्मदायाः तीरं गतवती। भोजराजः अपि तां अनुसृतवान्। सा तत्र जले वसतां ग्राहानामपि भीतिं विना नदीं तीर्त्वा जारसमागमार्थं परं पारं गतवती।

सर्वमेतद् दृष्ट्वा विस्मितो भूत्वा भोजराजः परेद्युः राजसदसि “दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम्।” इति समस्यां पूरणार्थं अयच्छत्। ऋते कालिदासं नान्यः कोऽपि एतस्याः समस्यायाः पूरणं कर्तुं शक्तोऽभवत्। अन्ततः कालिदासः एव एतस्याः पूरणं एवमकरोत् – “तत्र सन्तु जले ग्राहाः मर्मज्ञा सैव सुन्दरी॥”

कालिदासस्य कवित्वं अंतर्ज्ञानं च दृष्ट्वा सन्तुष्टो भूत्वा भोजराजः तं यथोचितं समादृतवान्।

महाकवेः कालिदासस्य अन्तिमं समस्यापूरणम् – Last “Samasya” of Kalidasa

एकदा भोजराजः कुपितो भूत्वा कालिदासं राजसभातः बहिष्कृतवान्। अभिमानधनः कालिदासः छद्मवेषं धृत्वा कस्यचन युवत्याः गृहे न्यवसत्। किंचित्कालानन्तरं भोजराजः रामायणमधिकृत्य चम्पू काव्यमेकं रचितवान्। परन्तु महाकवेः कालिदासस्य अनुमतिं विना तत् चम्पूकाव्यं प्रकाशयितुं भोजराजः न ऐच्छत्। अतः स एकां समस्यां निर्माय “यः कोऽपि एषां समस्यां पूरयति तस्मै मम राज्यस्य अर्धं ददामि” इति उद्घोषितवान्।

समस्य एवमासीत् – “कुसुमे कुसुमोत्पत्तिः दॄश्यते न च श्रूयते।” कालिदासाद् ऋते समस्यामेतां पूरयितुं न कोऽपि शक्त इति भोजराजः सम्यक् जानाति स्म।

यस्याः गृहे कालिदासः निवसन्नासीत् सा युवतिः गृहस्य भित्तौ समस्यामेतां लिखितवती। राज्ञः घोषणायाः विषये किंचिदपि कालिदासेन न श्रुतम्। अतः सः भित्तौ लिखितं श्लोकार्द्धं दृष्ट्वा एषा समस्या युवत्या एव रचिता इति मत्वा भित्तौ श्लोकस्य पूर्वार्द्धस्य अधः एवं लिखित्वा समस्यां अपूरयत् – “बाले तव मुखांभोजे नयनेन्दीवरद्वयम्” इति। एतद् दृष्ट्वा सा युवती प्रसन्ना भूत्वा श्लोकमेनं एकस्मिन् पत्रे लिखितवती। समस्यापूरणं कालिदासेन कृतमिति न केनापि ज्ञातव्यमिति चिन्तयित्वा सा कालिदासं एकस्मिन् गर्ते पातयित्वा तस्योपरि एकां शिलामपि संस्थाप्य राजमन्दिरं अगच्छत्। समस्यापूरणं दृष्ट्वा भोजराजः तत्क्षणमेव अवगतवान् एतत् कालिदासेन कृतमिति। कालिदासः कुत्र अस्ति? किं त्वया कालिदासो हतो वा? इति राजा तां अपृच्छत्। भीता सा राजानं सर्वं वृत्तन्तं अवदत्।

भोजराजः झटिति तस्याः गृहं गत्वा कालिदासं गर्तात् रक्षितवान्। परन्तु तावता कालिदासः मृतप्राय आसीत्। सः राजानं अवदत् “इह जीवनं नितरां चञ्चलमस्ति। मम जीवनस्य अन्तिमक्षणे परमात्मनि मनः संस्थापयितुमिच्छामि” इति। एतच्छ्रुत्वा भोजराजः विषण्णो भूत्वा एवं अवदत् “मया रामायणमधिकृत्य चम्पूकाव्यमेकं रचितम्। तद्भवता श्रोतव्यमिति मे अभिलाषः” इति। कालिदासस्य अनुमतिं प्राप्य राजा काव्यं श्रावयितुमारव्धवान्। यावता सुन्दरकाण्डस्य अन्तिमश्लोकः पठितः तावता महाकवेः कालिदासस्य प्राणाः शरीरान्निर्गताः।

भोजराजः रामायणचम्पूकाव्यस्य सुन्दरकाण्डपर्यन्तमेव प्रकाशनमकरोत् यतः तावदेव कालिदासेन श्रुतं अनुमतं च – युक्धकाण्डं, उत्तरकाण्डं च सः अग्नौ प्राक्षिपत्। कालिदासं प्रति भोजराजस्य मनसि कियान् आदरः आसीदित्यस्य एषः प्रसङ्ग एव प्रमाणम्।

कालिदासस्य गर्वभङ्गः – Poet Kalidasa humbled

महाकवेः कालिदासस्य विषये एषः रुचिरः प्रसंङ्गः मया श्रुतः। एकदा स काशीनगर्यां कुत्रचित् मुनेः व्यासस्य एकां प्रतिमां अपश्यत् । सः तस्य पुरतः साष्टांगं प्रणम्य “चकारजठराय नमः” इति स्वेन कृतमेकं मन्त्रं उच्चार्य समीपस्थस्य वृक्षस्य मूले उपाविशत् । व्यासः तस्य श्लोकेषु चकारस्य उपयोगः अनेकवारं वृथा कृतवान् इत्यतः तस्य उदरं (जठरं) चकारैः पूरितमासीदिति कालिदासस्य विवक्षा आसीत् ।

किंचिदनन्तरं एकः वृद्धब्राह्मणः तत्र समागतः। सः एका समस्या पूरयितुं कालिदासाय दत्तवान् । समस्या आसीत् “त्रितयः त्रितयः त्रिषु” इति।कालिदासः सद्य एव तस्य पूरणं एवं अकरोत् ।

पतिप्रवरता ज्येष्ठे पतिदेवरतानुजे ।
इतरेषु च पाञ्चाल्याः त्रितयः त्रितयः त्रिषु॥

patipravaratA jyeShThe patidevaratAnuje |
itareShu ca pA~jcAlyAH tritayaH tritayaH triShu||

Panchali (Draupadi) had two kinds of relationships each with Yudhishthira and Sahadeva – being her husbnad as well as elder/younger brother of the husband. With the other three (Bhima, Arjuna & Nakula) she had three kinds of relationships each (husband, husband’s younger brother and elder brother.

तद् श्रुत्वा सः वृद्धब्राह्मणः कालिदासं पृष्टवान् “भवान् किमर्थं अत्र ’चकारं” एव उपयुक्तवान्” इति. तदा कालिदासः अवगतवान् एतद् ब्राह्मणः नान्यः कोऽपि परन्तु भगवान् व्यास एव इति। अहं व्यासस्य अपेक्षया अपि महान् कविः इति कालिदासस्य मनसि यः गर्वः आसीत् तस्य भंगः अभवत् । (अनन्तरं किमभवत् इति अहं न जानामि।)