A Humorous Story from Melpattur’s life – कर्णमूलमुपाश्रिता

पुरा केरले अम्बलप्पुषा (चेम्बकश्शेरी) देशे देवनारायणेति राजा समभवत्। स विद्वान्, गुणज्ञः, भक्तश्च आसीत्। प्रतिदिनं प्रातः स्नानं, पूजादिकं च कृत्वा महाभारतपारायणं श्रवणीयमिति तस्य नियमः आसीत्। तदनन्तरमेव सः प्रातराशः करोति स्म। तेन एकः विद्वान् ब्राह्मणः अपि नियोजितः आसीत्। एकस्मिन् दिने स ब्राह्मणः काले न आगतः इत्यतः राज्ञः प्रातराशार्थं विलम्बः अभवत्। महाभारतं पठितुं कमपि विदुषं आनेतुं स भृत्यान् आज्ञापितवान्। किंचिदनन्तरं भृत्यैः एकः ब्राह्मणः समानीतः। राजा तं अपृच्छत् “किं भवान् महाभारतं संयोजयित्वा पठितुं शक्यते वा?” इति। सः ब्राह्मणः “किंचिद् जानामि” इत्यब्रवीत्। तदनन्तरं स ब्राह्मणः महाभारतस्य कर्णपर्वं पठितुं आरभत। तन्मध्ये स श्लोकमेनमपि अपठत्।

भीमसेनगदात्रस्ता दुर्योधनवरूथिनी।
शिखा खल्वाटकस्येव कर्णमूलमुपाश्रिता॥

श्लोकोऽयं न महाभारतान्तर्गतः परन्तु अनेन ब्राह्मणेनैव रचितः इति राजा देवनारायणः तत्क्षणमेव अवगतवान्। स अचिन्तयत् “संयोजयित्वा पठितुं शक्यते वा” इति मया पृष्टं इत्यतः खल्वाटं मां उपहसितुं अनेन एवं कृतम्। एषः न सामान्यः ब्राह्मणः, महापण्डितः मेल्पत्तूर् नारायणभट्टतिरिः एव” इति।

तत्क्षणमेव मेल्पत्तूर नारायणभट्टतिरिः राजानं प्रसादयितुं श्लोकमेनं रचित्वा पठितवान् –

अव्यञ्जनस्तार्क्ष्यकेतुर्यत्पदं घटयिष्यति।
तत्ते भवतु कल्पान्तं देवनारायणप्रभो॥

व्यञ्जनाक्षराभ्यां विना “तार्क्ष्यकेतुः, “आयुः” भवति। अतः श्लोकार्थः “हे देवनारायणप्रभो, ते आयुः कल्पान्तं भवतु” इत्यस्ति। अनेन श्लोकेन प्रसन्नः राजा मेल्पत्तूर वर्यं यथायोग्यं सत्कृतवान्। एषः पण्डित एव श्रीमन्नारायणीयस्य कर्ता अपि।

प्रथमश्लोके “कर्णमूलं” इत्यस्य अर्थद्वयमस्तीति च स्मर्तव्यम्।

A Samasya – A bride longs for her father-in-law वधू श्वशुरमिच्छति

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा गणपतिमुनिः वंगदेशे नवद्वीपे एमस्मिन् पण्डितपरिषदि कवित्वपरीक्षायां भागं गृहीतवान्। परीक्षकः तस्मै “स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति” इति एकां समस्यां दत्वा, “किं त्वनवद्यचरिता” इत्यपि सूचितवान्। गणपति मुनिः तां समस्यां एवं पूरितवान् –


हिडिम्बा भीमदयिता निदाघे घर्मपीडिता।
स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति॥

Hidimba, the beloved of Bhima, oppressed by heaat in summer, longs for her father-in-law (Vayu – the deity of Air) after removing the cloths covering her breasts.

हिडिम्बायाः श्वशुरः वायु इति प्रसिद्धमस्ति।

परीक्षकमतं तु द्रौपदी भीमदयिता इत्यासीत्। किंतु गणपतिमुनेः मतं तु एवमासीत् – हिडिम्बा भीमस्यैव पत्निः किंतु द्रौपदिस्तु पाण्डवानां सर्वेषामपि पत्निः इत्यतः “हिडिम्बा भीमदयिता” इति प्रयोग एव समीचिनः। अन्यच्च द्रौपदिस्तु राजकुलजाता। औष्ण्यनिवारणार्थं उत्तरीयपरित्यागः तस्यै न युज्यते, अरण्यनिवासिन्याः हिडिम्बायास्तु एतादृशः व्यवहारः समुचितः।

महाभारत-रामायण-वेदानां कालनिर्णयः – Scientific dating of Mahabharata, Ramayana & Vedas

cover dating ramayana
अस्मत्पूर्वजैः एतद्देशस्य इतिहासः न सम्यक् लिखितः इति प्रायशः वयं सर्वे चिन्तयामः। अस्माकं इतिहासस्य कालानुक्रमविषयेऽपि वैदेशिकाः भारतीयाश्च पण्डिताः न एकमताः। श्रीरामः श्रीकृष्णः कश्चिदन्यः महापुरुषो वा कस्मिन् शतके जीवन्नासीदिति याथातथ्येन वक्तुं इतः पर्यन्तं दुष्करमेवासीत्।

परन्तु अधुना पुण्यनगरवासिना डा. पद्मनाभ विष्णु वर्तक वर्येण त्रिंशत् वर्षाणां अनुसन्धानानन्तरं महाभारत-रामायणयोः वेदस्य च कालाः निर्णीताः। एतेषु ग्रन्थेषु सूचितानां ज्यौतिषिकोल्लेखानां, पौराणिकैः पाषाणशिलालेखैः, ऐतिहासिक प्रमाणैश्च सह समर्थयित्वा डा. वर्तकवर्यः रामायणभारतादीनां कालनिर्णयं कृतवान्।

डा. वर्तकस्य मतमनुसृत्य महाभारतयुद्धं क्रिस्तोः पूर्वं ५५६२ वर्षे, रामरावणयोः संग्रामः क्रिस्तोः पूर्वं ७२९२ वर्षे च अभवताम्। तथा च ऋग्वेदस्य आदिमसूक्तानां रचना क्रिस्तोः पूर्वं २३७२० तमे वर्षे अभवत् इत्यपि सः निर्णीतवान्। एतद्विषये डा. वर्तकवर्येण आङ्गलभाषायां पुस्तकद्वयं रचितमस्ति। ते द्वेऽपि पुस्तके इदानीं अन्तर्जालके उपलभ्येते। एतयोः अन्वये अधः प्रदत्ते स्तः।

The Scientific Dating of Mahabharata War

The Scientific Dating of Ramayana and the Vedas

vartakग्रन्थकारस्य सङ्केतः
डा. पी. वी. वर्तक्,
५५१, शनिवार् पेठ्,
पुणे, महाराष्ट्रम्
दूरध्वनिः – ०२०-२४४५०३८७
कार्यसमयः – प्रातः ९-११ एवं सायं ६-८