A Humorous Story from Melpattur’s life – कर्णमूलमुपाश्रिता

पुरा केरले अम्बलप्पुषा (चेम्बकश्शेरी) देशे देवनारायणेति राजा समभवत्। स विद्वान्, गुणज्ञः, भक्तश्च आसीत्। प्रतिदिनं प्रातः स्नानं, पूजादिकं च कृत्वा महाभारतपारायणं श्रवणीयमिति तस्य नियमः आसीत्। तदनन्तरमेव सः प्रातराशः करोति स्म। तेन एकः विद्वान् ब्राह्मणः अपि नियोजितः आसीत्। एकस्मिन् दिने स ब्राह्मणः काले न आगतः इत्यतः राज्ञः प्रातराशार्थं विलम्बः अभवत्। महाभारतं पठितुं कमपि विदुषं आनेतुं स भृत्यान् आज्ञापितवान्। किंचिदनन्तरं भृत्यैः एकः ब्राह्मणः समानीतः। राजा तं अपृच्छत् “किं भवान् महाभारतं संयोजयित्वा पठितुं शक्यते वा?” इति। सः ब्राह्मणः “किंचिद् जानामि” इत्यब्रवीत्। तदनन्तरं स ब्राह्मणः महाभारतस्य कर्णपर्वं पठितुं आरभत। तन्मध्ये स श्लोकमेनमपि अपठत्।

भीमसेनगदात्रस्ता दुर्योधनवरूथिनी।
शिखा खल्वाटकस्येव कर्णमूलमुपाश्रिता॥

श्लोकोऽयं न महाभारतान्तर्गतः परन्तु अनेन ब्राह्मणेनैव रचितः इति राजा देवनारायणः तत्क्षणमेव अवगतवान्। स अचिन्तयत् “संयोजयित्वा पठितुं शक्यते वा” इति मया पृष्टं इत्यतः खल्वाटं मां उपहसितुं अनेन एवं कृतम्। एषः न सामान्यः ब्राह्मणः, महापण्डितः मेल्पत्तूर् नारायणभट्टतिरिः एव” इति।

तत्क्षणमेव मेल्पत्तूर नारायणभट्टतिरिः राजानं प्रसादयितुं श्लोकमेनं रचित्वा पठितवान् –

अव्यञ्जनस्तार्क्ष्यकेतुर्यत्पदं घटयिष्यति।
तत्ते भवतु कल्पान्तं देवनारायणप्रभो॥

व्यञ्जनाक्षराभ्यां विना “तार्क्ष्यकेतुः, “आयुः” भवति। अतः श्लोकार्थः “हे देवनारायणप्रभो, ते आयुः कल्पान्तं भवतु” इत्यस्ति। अनेन श्लोकेन प्रसन्नः राजा मेल्पत्तूर वर्यं यथायोग्यं सत्कृतवान्। एषः पण्डित एव श्रीमन्नारायणीयस्य कर्ता अपि।

प्रथमश्लोके “कर्णमूलं” इत्यस्य अर्थद्वयमस्तीति च स्मर्तव्यम्।