Bhojaraja Escapes Death – मान्धाता स महीपतिः

पुरा धाराराज्ये सिन्धुलो नाम राजा शासनं करोति स्म। वृद्धस्य तस्य पुत्रः भोजः केवलं पञ्चवर्षीयः आसीत्। अतः सिन्धुलस्य निधनानन्तरं तस्य भ्राता मुञ्जः राजा अभवत्। किंचित्कालानन्तरं कश्चित् ज्यौतिषिकः मुञ्जमवदत् “भोजः वंगदेशं दक्षिणापथं च पञ्चपञ्चाशत् वर्षाणि शासनं करिष्यति” इति। तदाकर्ण्य मुञ्जः एवं अचिन्तयत् “यदि भोजः राजा भविष्यति चेत् तदाहं जीवन्नपि मृत इव भविष्यति। एतन्निरोद्धुं मया यत्नः कर्तव्यः” इति। तदनन्तरं सः वंगदेशाधीशं वत्सराजं आहूय तमाह – “त्वया भोजः वनं नीत्वा हन्तव्यः। तस्य शिरः अत्रानेतव्यं च”। भोजं हन्तुं अनिच्छन्नपि मुञ्जस्य आज्ञां शिरसा वहन् वत्सराजः भोजं राजप्रसादतः वनं नीतः।

तत्र भोजः छुरिकया स्वजङ्घां छित्वा रक्तमादाय तृणेन एकस्मिन् वटपत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह – “वत्स, पत्रमेनं राज्ञे दातव्यं। इदानीं राजाज्ञां विधेहि” इति। परन्तु तत्रोपस्थितेन स्वानुजेन उपदिष्टः वत्सः पश्चात्तापपीडितः सन् भोजं ’क्षमस्व’ इत्युक्त्वा घनान्धकारे तं स्वगृहं नीत्वा भूगर्भस्थे एकस्मिन् प्रकोष्ठे निक्षिप्य रक्षितवान्। तदनन्तरं वत्सराजः भोजस्य कृतकमेकं मस्तकं कारयित्वा मुञ्जराजसमीपं गत्वा तद् मुण्डं, भोजस्य पत्रं च अदात्। तस्मिन् पत्रे भोजकुमारेण श्लोकोऽयं लिखितः आसीत् –

मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति॥

राजा च तत्पठित्वा मूर्च्छितो भूत्वा भुमौ पपात। स अपि “भ्रात्रा ममोत्संगे स्थापितः भोजकुमारः पितृव्येण मया हतः। अधमोऽहं न जीवितुमर्हामि” इति चिन्तयित्वा पश्चात्तपविवशो भूत्वा प्राणान् त्यक्तुं निश्चितवान्। दैववशात् तदा कश्चन योगीन्द्रः तत्रागत्य मुञ्जं समाश्चसितवान्। सः योगीन्द्रः स्वतपोबलेन मृतं भोजं प्रत्युज्जीवितवान्। मुञ्जराजः सद्य एव कुमारं भोजं राजसिंहासने निवेशयित्वा, तं राज्यं दत्वा पत्न्या सह तपोवनं अगच्छत्। तदनन्तरं भोजराजस्तु स्वराज्यं चिरकालं बुभुजे।