Who am I? – A Story from Ramana Maharshi कोऽहं कस्त्वम्

Sri Ramana Maharshi

गुरुः शिष्यं प्रति आत्मस्वरूपं कथं बोधयति इत्यस्य उत्तमदृष्टान्तमस्ति विष्णुपुराणान्तर्गता एषा कथा।

निदघः ऋभुमुनेः शिष्यः आसीत्। सः गुरुकुले कानिचन वर्षाणि उषित्वा विद्याध्ययनं कृत्वा तत्समाप्य स्वगृहं प्रत्यगच्छत्। “आत्मैवेदं सर्वम्” इति तेन गुरुमुखात् श्रुतमासीत् तथापि तस्य आत्मबोधो न सञ्जातः। ऋभुः स्वशिष्यं अत्यन्तं स्निह्यति स्म। अतः सः निदघस्य अज्ञानं दूरीकरोतुं इदानीं उचितः कालः इति चिन्तयित्वा एकस्य स्थविरस्य ग्रामीणस्य रूपं धृत्वा निदघस्य ग्रामं समागतः। तदा निदघः तद्देशस्य राज्ञः तत्परिजनस्य च प्रस्थानं निरीक्षमाण आसीत्। ग्रामीणः निदघस्य समीपं गतवान्। तयोर्मध्ये एषः संवादः संवृत्तः।

ग्रामीणः (ऋभुः) – किमर्थं एषः कोलाहलः?
निदघः – राजा गच्छति।
ग्रामीणः – बहवः जनाः सन्ति। तेषां राजा कः?
निदघः – यः हस्तिनः उपरि उपविशति स राजा।
ग्रामीणः – राजा गजस्योपरि इति भवता उक्तम्। अहं द्वावपि पश्यामि, परन्तु तयोः को राजा, गजः कः इति न जानामि।
निदघः – (रोषेण) किम्! यदि भवान् द्वावपि पश्यति तथापि उपरिष्ठः राजा, तस्य अधः गजः इति न जानाति चेत् भवता सह भाषणमेव व्यर्थम्।
ग्रामीणः – मादृशं अज्ञं प्रति क्षमा प्रदर्शितव्या भवता। ’उपरि’ एवं ’अधः’ इति द्वौ शब्दौ भवता प्रयुक्तौ, तयोः को अर्थः?

ग्रमीणस्य मौढ्यं इतोऽप्यधिकं सोढुं असमर्थः निदघः बलात् तस्य स्कन्धमारुह्य “राजः गजोपरि” इव उपविश्य तं उक्तवान् “जानातु इदानीं। अहं राजवत् उपरि अस्मि। त्वं गजवत् अधः अपि। इदानीं अवगतं वा?”
ग्रामीणः – पूर्णतया न अवगतं। ’राजा, गजः, उपरि एवं अधः’ एतावत् अवगतवान्। परन्तु ’अहं’ एवं ’त्वं’ किमिति न जानामि। कृपया मां वदतु कोऽहं, कस्त्वं इति च।

“कोऽहं” एवं “कस्त्वं” इति अतिगहनां समस्यां सम्मुखीकृत्य निदघः झटित्येव निर्विचारसमाधिं अनुभूतवान्। तदनन्तरं निदघः एषः ग्रामीणः स्वस्य परमादरणीयः गुरुवर्यः एव इत्यभिज्ञाय गुरुं विधिवत् प्रणम्य सत्कृत्य एवं अवदत् “भवत्कृपया अहं अद्य आत्मस्वरूपं किमिति ज्ञात्वा धन्योऽभवम्। मां सदा अनुग्रह्णातु।”

एषा कथा भगवता रमणेन पुनरुक्ता “spiritual stories” नामके ग्रन्थे आङ्गलभाषायां उपलभ्यते।

शुक्लांबरधरं विष्णुं – महर्षेः रमणस्य विषये

Maharshi Ramana
तद्दिनेषु (1899-1916) श्रीरमणः अरुणाचले विरूपाक्षगुहायां वसति स्म । एकदा गणपति मुनिः तस्य दर्शनार्थं समागतवान् । गणपति मुनिः संस्कृतपाण्डित्ये अप्रतिमः, वेदवेदांगपारंगतोऽपि आसीत् । तस्य बहवः शिष्याः अपि आसन् । तथापि सः एकं प्रामाणिकं अध्यात्मिकगुरुं अन्विष्यमान आसीत् । सः श्रीरमणाय प्रणाममकरोत् । श्री रमणः कृपार्द्रदृष्ट्या तं वीक्षितवान् ।

तदा एकः भक्तः गणपति मुनिः महान् विद्वान् इति ज्ञात्वा तं पृष्टवान्, “शुक्लांबरधरं विष्णुं.. इत्यस्य श्लोकस्य व्याख्यानं करोतु” इति. “एतस्य श्लोकस्य बहवः व्याख्यानाः सन्ति” इत्युक्त्वा मुनिः एनं श्लोकं विष्णोः, ब्रह्मणः, गणेशस्य च सम्बन्धे व्याख्यातवान् । तदनन्तरं “श्री रमणस्य विषये अपि एनं श्लोकं व्याख्यातुं शक्यते” इत्युक्त्वा सः एवं अवर्णयत्।

शुक्लाम्बरधरम् – यः शुक्लवर्णं वस्त्रं धरति ।
विष्णुम् – यः आत्मरूपेण सर्वत्र व्याप्तः अस्ति ।
शशिवर्णम् – यस्य वर्णं धवलमस्ति ।
चतुर्भुजम् – यः नाहं “मनोबुध्यहंकारचित्तानि” परन्तु आत्मा एव इति ज्ञात्वा तानि चत्वारि भुक्तवानिति चतुर्भुक् ।
प्रसन्नवदनम् – यस्य मुखं प्रसन्नमस्ति ।
ध्यायेत् सर्वविघ्नोपशान्तये – एतादृशं श्रीरमणं सर्वविघ्नानां उपशान्तयर्थं ध्यायेत् ।

एतद् श्रुत्वा सर्वे श्रोतारः विस्मिता अभवन्, श्रीरमणः गणपति मुनिं सस्मितं वीक्षितवान् च ॥