कपटधार्मिकः बकः – Pseudo-righteous Heron

एषा कथा वाल्मीकेः रामायणे अस्ति वा न वा इति नाहं जानामि। तथापि एषा कथा नितरां रुचिरास्ति इत्यतः एतस्याः कथनं अत्र युक्तमिति मन्ये।

एकदा श्रीरामलक्षणौ पम्पानद्यां स्नानार्थं गतवन्तौ। तत्र तौ शनैः शानैः चलन्तं एकं जरठं बकं अपश्यताम्। एनं दृष्ट्वा श्रीरामः लक्ष्मणं एवं अब्रवीत् –

“पश्य लक्ष्मण पम्पायां बकोयं परमधार्मिकः।
शनैः शनैः पदं धत्ते जीवानां वधशंकया॥”

एतद् निशम्य तत्रस्थः कश्चित् मण्डूकः श्रीरामं एवं न्यवेदयत्।

सहवासी विजानाति सहवासी विचेष्टितम्।
बकोऽयं वर्ण्यते राय तेनाहं निष्कुलीकृतः॥

महाभारत-रामायण-वेदानां कालनिर्णयः – Scientific dating of Mahabharata, Ramayana & Vedas

cover dating ramayana
अस्मत्पूर्वजैः एतद्देशस्य इतिहासः न सम्यक् लिखितः इति प्रायशः वयं सर्वे चिन्तयामः। अस्माकं इतिहासस्य कालानुक्रमविषयेऽपि वैदेशिकाः भारतीयाश्च पण्डिताः न एकमताः। श्रीरामः श्रीकृष्णः कश्चिदन्यः महापुरुषो वा कस्मिन् शतके जीवन्नासीदिति याथातथ्येन वक्तुं इतः पर्यन्तं दुष्करमेवासीत्।

परन्तु अधुना पुण्यनगरवासिना डा. पद्मनाभ विष्णु वर्तक वर्येण त्रिंशत् वर्षाणां अनुसन्धानानन्तरं महाभारत-रामायणयोः वेदस्य च कालाः निर्णीताः। एतेषु ग्रन्थेषु सूचितानां ज्यौतिषिकोल्लेखानां, पौराणिकैः पाषाणशिलालेखैः, ऐतिहासिक प्रमाणैश्च सह समर्थयित्वा डा. वर्तकवर्यः रामायणभारतादीनां कालनिर्णयं कृतवान्।

डा. वर्तकस्य मतमनुसृत्य महाभारतयुद्धं क्रिस्तोः पूर्वं ५५६२ वर्षे, रामरावणयोः संग्रामः क्रिस्तोः पूर्वं ७२९२ वर्षे च अभवताम्। तथा च ऋग्वेदस्य आदिमसूक्तानां रचना क्रिस्तोः पूर्वं २३७२० तमे वर्षे अभवत् इत्यपि सः निर्णीतवान्। एतद्विषये डा. वर्तकवर्येण आङ्गलभाषायां पुस्तकद्वयं रचितमस्ति। ते द्वेऽपि पुस्तके इदानीं अन्तर्जालके उपलभ्येते। एतयोः अन्वये अधः प्रदत्ते स्तः।

The Scientific Dating of Mahabharata War

The Scientific Dating of Ramayana and the Vedas

vartakग्रन्थकारस्य सङ्केतः
डा. पी. वी. वर्तक्,
५५१, शनिवार् पेठ्,
पुणे, महाराष्ट्रम्
दूरध्वनिः – ०२०-२४४५०३८७
कार्यसमयः – प्रातः ९-११ एवं सायं ६-८

सीतादेव्याः अनुकम्पा – न कश्चित् नापराध्यति – Sita’s Compassion

sita -hanuman
वाल्मीकी रामायणे एषा घटना वर्णिता अस्ति ।

रावणेन अपहृता सीता राक्षसस्त्रीभिः पीड्यमाना अशोकवनिकायां निवसन्ती आसीत् ।
श्रीरामः रावणं हत्वा राक्षसाण् जित्वा लंकां प्राविशत् । रणजयवार्तां सीतां वक्तुं आञ्जनेयः अशोकवनिकायां समागतः ।

तस्याः दैन्यतां अवलोक्य सः अतीव दुःखी अभवत् ।सः सीतां पृष्टवान् “भवत्याः अनुमतिः अस्ति चेत् अहं एताः निषूदयिस्यामि” इति । तदा उदारहृदया सीता हनूमन्तं एवं अवदत्

पापानां वाशुभानां वा वधार्हाणां प्लवंगम ।
कार्यं कारुण्यमार्येन न कश्चित् नापराध्यति ॥

“Be they good or evil or worthy of even being killed for performing hineous deeds, an arya ought to show compassion to them since there is none that has not sinned”.

जीसस् एवं उक्तवान् इति बैबिळ् मध्ये सूचितमस्ति “यैः पापं न कदापि अनुष्ठितं, ते एव पाषाणखण्डानि क्षिपेयुः” इति।

किंतु, ततः सहस्रावधि वर्षेभ्यः पूर्वं रामायणे सीता उक्तवती, ये आत्मानं पीडितवन्तः तेऽपि क्षन्तव्या इति । सीतायाः, वाल्मीकेः, रामायणस्य च महत्वं अधिकृत्य इतः परं किं वक्तव्यमस्ति।