Why should one do charity? – आपदर्थे धनं रक्षेत्…

कदाचिद् भोजराजं निरन्तरं सुकविभ्यः धनं दीयमानं आलोक्य मुख्यामात्यो बुद्धिसागरो वक्तुमशक्तो राज्ञः शयनागारस्य भित्तौ अलिखत् –
“आपदर्थे धनं रक्षेत्” इति। राजा शयनादुत्थितो अमात्येन लिखितं श्लोकं वीक्ष्य स्वयं द्वितीयचरणं अलिखत् – “श्रीमतामापदः कुतः” इति। अपरेद्युरमात्यो द्वितीयं चरणं लिखितं दृष्ट्वा स्वयं तृतीयचरणं अलिखत् – “सा चेदपगता लक्ष्मीः” इति। परेद्युः राज्ञा चतुर्थं चरणं लिखितम् – “सञ्चितार्थो विनश्यति”॥

सम्पूर्णश्लोकः एवमस्ति –
आपदर्थे धनं रक्षेत् श्रीमतामापदः कुतः।
सा चेदपगता लक्ष्मीः सञ्चितार्थो विनश्यति॥

ततो मुख्यामात्यो राज्ञः पादयोः पतित्वा अप्रार्थयत् – “क्षन्तव्योऽयं मेऽपराधः” इति।

अर्थस्य सञ्चयापेक्षया तस्य वितरणमेव श्रेष्ठमिति भोजराजस्य मतम्। उक्तञ्च मनीषिभिः –
“दानं भोगं नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाम॥ इति॥

Tragic Death of Mahakavi Magha – हिरण्यमेवार्जय निष्फलाः कलाः

शिशुपालवधस्य रचयिता महाकविः माघः संस्कृतसाहित्ये सुविश्रुतः। माघकवेः काव्यसौष्टवं पुरस्कृत्य कश्चित् कविना लिखितः सर्वविदितोऽयं श्लोकः – “उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः” इति॥

माघकविः अतीवदयालुः दानशीलश्च आसीत्। उदारहृदयेण तेन स्वस्य धनं सर्वं अन्येभ्यः दत्तम्। अतः तस्य अन्तिमदिनेषु स अत्यन्तं निर्धनः अभवत्। क्षुत्पिपासाभ्यां नितरां पीडितः सः अन्ते कस्यचन वृक्षस्य अधः शयानः स्वप्राणान् त्यक्तवान्। तदा तस्य हस्ते पत्रमेकं दृष्टं यस्मिन् श्लोकोऽयं आसीत् –

न भुज्यते व्याकरणं बुभुक्षितैः पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥

मानवजीवने अर्थः अनुपेक्षणीय एव, अतः अर्थस्य तिरस्कारो न कर्तव्य, इति प्रसङ्गोऽयं अस्मान् स्मारयति।